2023-02-23 18:32:34 by ambuda-bot
This page has not been fully proofread.
सूर्यशतकम् ।
कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः
श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।
योगोद्योगैकतानो गमयति सकलं वासरं स्व स्वयंभू
र्भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥
४५
स भास्वान्वोऽव्यात् । यत्र भास्वति भुवनविभौ लोकपाले त्रैलोक्यचिन्ताभृति ब
हुजगच्चिन्ताधारे सति ब्रह्मादीनां चिन्ता नास्ति । एतदेव दर्शयति — कृत्तिवासा महा-
देवः कैलासे भूरिगिरौ (?) विहरति क्रीडते । विरहत्रासदेहोढकान्तः वियोगभयाद्देहे
धृता प्रिया पार्वती येन सः । श्रान्तः खिन्नः । शेते स्वपिति । महाहौ महोरगे । अधि-
जलधि पयोधौ । विना छद्मनाव्याजेन । योगस्तापादिच्छलं विना (?) । पद्मनाभो ना-
रायणः । किं च, स्वयंभूर्ब्रह्मा स्वमात्मीयं वासरं दिवसं गमयति यापयति । योगोद्योगै-
कतानः । योगश्चित्त[वृत्ति]निरोधस्तत्रोद्योग उद्यमस्तत्रैकतान एकाग्रः । सकलं
. निरवशेषम् । एते भुवनपतयो नाम[मात्रेण] स्वकार्येकनिष्ठास्तिष्ठन्ति, अयं तु भगवा-
न्कर्मणि कृतपरिकर इति दर्शितम् ॥
।
एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽचषि यानि
द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेडणुर्यजूंषि ।
एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९
स सूर्यो वो युष्माकं श्रिये स्तादस्तु । कीदृशः । स्वर्गापवर्गप्रकृतिः संसारनिर्वाण-
स्वभावः कारणम् । स्वयमविकृतिर्विकाररहितः । यं सूर्यमयं वर्ग एष गणो वेदवेदी वेद-
वेत्ता मण्डलाचिः पुरुषलसमान (?) ज्योतिरिति शेषः । एवं वेद जानाति । कथंभूतम् ।
वेदत्रितयमयं त्रिवेदीप्रकृतिकम् । तथा च 'त्रयी वा एषा विद्या तपति' इति
श्रुतिः । तन्मयम् । कथमेवम् । इत्थंभूतं देवं यं वेद । यदैतन्मण्डलं दिनकृत आदित्यस्य
संबन्धि खे तपति ता ऋचः स ऋग्वेदः । 'ता ऋचः स ऋचां लोकः' इति श्रुतिः ।
यान्यचींषि दीप्तयो द्योतन्ते भासन्ते तानि सामानि सामवेदः । 'यदेतदचिदप्यिते तन्म-
हाव्रतं तानि सामानि स साम्नां लोकः' इति श्रुतिः । अयमपि मण्डले पुरुष आत्माणुः
सूक्ष्मो योगगम्यस्तानि यजूंषि स यजुर्वेदः । 'य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि
यजूंषि स यजुषां लोकः' इति श्रुतिः । एतेन वेदत्रितयमयत्वं कथितम् ॥
नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।
}