2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="85">निःश्वासायासनिष्ठः [^१]परमपरवशो जायते जीवलोकः
शोकेनेवान्यलो[^२]कानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥
</verse>
<p text="B" n="85">सोऽर्को वो युष्मानवतात् । यत्रान्यलोकानुदयकरे गते सति जायते जीवलोक इत्थं-
भूतो भवति । शोकेनेव विषादेनेव । किमवस्थः । लोटन् विवर्तमानः । लोष्टाविचेष्टो
लोष्टवच्चेष्टारहितः । श्रितशयनतलः शय्यापतितः । निःसहीभूतदेहो विक्लवगात्रः । प्रा-
णितव्ये जीवितव्ये संदेही संशयितः किं जीविष्याम्युत न जीविष्यामीति संशयानः ।
किं कुर्वन् । सपदि तत्क्षणं दश दिशोऽन्धकारा(निरा)लोकाः प्रेक्षमाणः पश्यन् । निः-
श्वासायासनिष्ठः खेदवान् । परमपरवशोऽतीव दुःस्थितः । शोकेनाप्येवं भवति ॥
</p>
<verse text="A" n="86">क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं
नृृणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।
यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥
</verse>
<p text="B" n="86">सोऽर्को युष्माकं श्रिये विभूत्यै भूयात् । प्रागवस्थाधिकतरपरिणामोदयः पूर्वदशा-
प्रकर्षाधिकपरिणत्युद्गतिः । कीदृशोऽसौ । यः ऋामँलङ्घयन् लोलोऽपि तरलोऽपि लो-
काञ्जगन्ति स्थैर्यकोटिं स्थिरतापक्षमाश्रितः । क्व । तदुपकृतिकृतौ लोकोपकारविधान-
विषये । किं च, नृृणां पुंसां दृष्टिं चक्षुर्विजिह्यां मन्दां विदधन्नपि कुर्वन्नप्यन्तःकरणा-
नुरूपामत्यन्तभद्रां नितान्तकृतार्थां करोति विधत्ते । यस्तापस्यापि हेतुः कारणं भवति
जायते । नियमिनां योगिनामेको निर्वाणदायी मुक्तिदायी ॥
</p>
<verse text="A" n="87">व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
नेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।
आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां
यस्मिंस्त्रैलोक्यमेवं न चलति तपति तात्स सूर्यः श्रिये वः ॥ ८७ ॥
</verse>
<p text="B" n="87">स सूर्योऽ वो भवतां श्रिये विभूत्यै स्तात् । व्यापन्नतुर्विनष्टर्तुः कालो वसन्ता-
दिर्न भवति ऋतूननुवर्तते । ओषधीः कर्मतापन्नाः फलं कर्तृ न व्यभिचरति न विसंव-
दति । वृष्टिरिष्टा वर्षणमभिमतं भवति । इष्टैर्यागैर्देवा दिवौकसो न नहि तृप्यन्ति ।
अपि तु तृप्यन्ति । वहति मरुद्वाति वातः । निर्मलाभानि विमलद्युतीनि भानि नक्ष-
त्राणि । आशा दिशः शान्ताः प्रसन्नाः । उदधयः समुद्रा मर्यादां न भिदन्ति । क्षमा-
भृतः क्ष्मां बिभ्रति । यस्मिंस्तपति सति त्रैलोक्यमेवमुक्तप्रकारेण न चलति न विप्लवं
याति ॥
[^</p>
<footnote mark="१] ">'चिरतरमवशो' इति पाठ:.
[^२] 'लोकाभ्युदय' इति पाठः</footnote>
</page>

[^
<footnote mark="१
[^२] 'लोकाभ्युदय' इति पाठः</footnote>
</page>