This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
निःश्वासायासनिष्ठः पै[^१]परमपरवशो जायते जीवलोकः
 

शोकेनेवान्यलो[^२]कानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥

 
सोऽर्को वो युष्मानवतात् । यत्रान्यलोकानुदयकरे गते सति जायते जीवलोक इत्थं-

भूतो भवति । शोकेनेव विषादेनेव । किमवस्थः । लोटन् विवर्तमानः । लोष्टाविचेष्टो

लोष्टवच्चेष्टारहितः । श्रितशयनतलः शय्यापतितः । निःसहीभूतदेहो विक्लवगात्रः । प्रा-

णितव्ये जीवितव्ये संदेही संशयितः किं जीविष्याम्युत न जीविष्यामीति संशयानः ।

किं कुर्वन् । सपदि तत्क्षणं दश दिशोऽन्धकारा (निरा) लोकाः प्रेक्षमाणः पश्यन् । निः-

श्वासायासनिष्ठः खेदवान् । परमपरवशोऽतीव दुःस्थितः । शोकेनाप्येवं भवति ॥

 
क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं
 
नृ

नृृ
णां दृष्टिटिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।

यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
 
४४
 

भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥

 
सोऽर्को युष्माकं श्रिये विभूत्यै भूयात् । प्रागवस्थाधिकतरपरिणामोदयः पूर्वदशा-

प्रकर्षाधिकपरिणत्युद्गतिः । कीदृशोऽसौ । यः ऋामँलङ्घयन् लोलोऽपि तरलोऽपि लो-

काञ्जगन्ति स्थैर्यकोटिं स्थिरतापक्षमाश्रितः । क्व । तदुपकृतिकृतौ लोकोपकार विधान-

विषये । किं च, नृनृृणां पुंसां दृष्टिं चक्षुर्विजिह्यां मन्दां विदधन्नपि कुर्वन्नप्यन्तःकरणा-

नुरूपामत्यन्तभद्रां नितान्तकृतार्थीथां करोति विधत्ते । यस्तापस्यापि हेतुः कारणं भवति

जायते । नियमिनां योगिनामेको निर्वाणदायी मुक्तिदायी ॥
 

 
व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
 

नेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।

आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां
 

यस्मिंस्त्रैलोक्यमेवं न चलति तपति तात्स सूर्यः श्रिये वः ॥८७ ॥

 
स सूर्योऽ वो भवतां श्रिये विभूत्यै स्तात् । व्यापन्नतुर्विनष्टर्तुः कालो वसन्ता-

दिर्न भवति ऋतूननुवर्तते । ओषधीः कर्मतापन्नाः फलं कर्तृ न व्यभिचरति न विसंव-

दति । वृष्टिरिष्टा वर्षणमभिमतं भवति । इष्टैर्यागैर्देवा दिवौकसो न नहि तृप्यन्ति ।

अपि तु तृप्यन्ति । वहति मरुद्वाति वातः । निर्मलाभानि विमलद्युतीनि भानि नक्ष-

त्राणि । आशा दिशः शान्ताः प्रसन्नाः । उदद्धयः समुद्रा मर्यादां न भिदन्ति । क्षमा-

भृतः क्ष्मां बिभ्रति । यस्मिंस्तपति सति त्रैलोक्यमेवमुक्तप्रकारेण न चलति न विप्लवं

याति ॥
 

 
[^
.] 'चिरतरमवशो' इति पाठ:.
[^
.] 'लोकाभ्युदय' इति पाठः