This page has not been fully proofread.

सूर्यशतकम् ।
 
४३
 
स्मात्तापात् । अनेन दाहं दर्शयति । कीदृशस्य । अधिकतरपटोरतिशयतीव्रस्य तस्य च्छे-
दात् । कैः कृत्वा । अच्छिन्नमनवरतं गच्छन्तो वल्गन्तस्ते च ते तुरगाश्च तेषां खुर-
पुटास्तेषां न्यासास्त एव निःशङ्कङ्कास्तैरिति । टङ्काः शस्त्रविशेषाः । अनेन च्छेदं दर्श-
यति । किं च, निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणादपगतसङ्गरथाङ्ग अमोल्लेखनात् । अनेन
निकषणमाह ॥
 
नो शुष्कं नाकनद्या विकसितर्कनकाम्भोजया भ्राजितं तु
पुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।
नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-
नीद्धं धाम मार्गे दयति दयया यत्र सोऽऽवताद्वः ॥ ८३ ॥
सोऽर्को रविरादित्योऽरुणपादो दयया वो युष्मानवताद्रक्षतु । यत्रेद्धं दीप्तं धाम तेजो
द्युमार्गे वियत्पथे श्रदयति मृदु विदधति सति नाकनद्या नो शुष्कं गङ्गया न शुष्यते
स्म । अपि तु भ्राजितं राजितमेव । किंभूतया । विकसितकनकाम्भोजया विकस्वरस्वर्ण-
कमलया । किं च प्लष्टा नैव न दग्धा नन्दनोद्यानलक्ष्मीर्नन्दनोपवनशोभा । अपि तु
भृशतरं भोग्या भोगार्हा भवति । अमरगिरेरोः शृङ्गाणि शिखराणि नो द्रुतानि न द्र-
वभावं गतानि । प्रत्युत द्रुतं शीघ्रं धौतानि । कालधौतानि हिरण्मयानि ॥
ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि
 
प्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।
कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां
 
सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥
 
सोऽर्यमा सूर्यो वो युष्मानव्यात् । कीदृशः । एकोद्यमेच्छाविहितबहुबृहद्विश्वकार्यः ।
एकश्चासावुद्यमश्च तेन कृत्वा इच्छया विहितानि बहूनि बृहन्ति विश्वकार्याणि येन स
तथोक्तः । केवलं ध्वान्तस्यैव तमस एव केवलस्य मलिनैकात्मनो मलीमसैकरूपस्यान्त-
हेतुर्विनाशकारणं न भवति किं तु पाप्मनोऽपि एनसोऽपि । कथम् । प्राक्पूर्वम् । पादो-
पान्तभाजां पुनरपि यो न केवलं पङ्कजानां पद्मानां चरणाभ्यर्णवृत्तीनामपि प्रबोधं तत्त्व-
दर्शनं योजयति । खलु निश्चयेन न केवलं वासराणां कर्ता निःश्रेयसानामप्यपवर्गाणा-
मपि । अपिशब्दः समुच्चये । खलु वाक्यालंकारे ॥
 
लोटॅल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
 
संदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।
 
१. 'कनकाम्भोरुहा' इति पाठ:.