This page has not been fully proofread.

४२
 
काव्यमाला ।
 
ब्रध्नस्य रवेर्मण्डलं वो युष्मानव्याद्रक्षतु । विरुद्धक्रियं विरुद्धव्यापारम् । अथ च

हिताधायि तथापि हितकारि । तदेव दर्शयति –- चक्षुर्दक्षद्विषो यत् लोचनं भगवतो महेश्व-

रस्य । न तु कामं दहति प्रत्युत पूरयतीति विरोधः । भगवतश्चक्षुषा कामो मन्मथो

दग्धो न तु पूरितः । कामोऽभिलाषस्तं न दहति प्रत्युत पूरयतीति परिहारः । पु-

रोऽग्रतः । दक्षद्विषश्चक्षुरित्यागमविदः । नियमिनां योगिनां भवाब्धौ संसारसमुद्रे यन्म-

ण्डलं यानपात्रं प्रवहणम् । यजगतां भ्रान्ति मिथ्याज्ञानं हन्ति । भ्रमदपि पर्यटदपि ।

शश्वदनवरतम् । वीतश्रान्ति विगतश्रमम् । शश्वत्सदा गमनचिह्नाङ्ग (?)मभ्रान्तीति

विरोधः । भ्रान्तिशब्दोऽयं संशये । अभ्रान्ति असंशयमित्यदोषः ॥ इति मण्डलवर्णन-

व्याख्या ॥
 

 
सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भ

गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।

सा साध्यैर्मुनीन्द्रैर्मुदिततममनो 'मोक्षिभिः पक्षपाता-

प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥

 
विश्ववन्द्योदयो रविर्वो युष्मानवतु रक्षतु । कीदृशोऽसौ भगवान् । प्रातः प्रभाते प्रारभ्य-

माणस्तुतिरुपक्रम्यमाणस्तोत्रः । कैः कैः कथं कथमित्याह – सिद्धैर्देवविशेषैः सिद्धान्तमिश्रं

सिद्धान्तशब्देन सिद्धान्तोक्तविधिरुच्यते । उपचारात् । तन्मिश्रं तदुपेतम् । क्रियाविशे-

षणम् । एवं प्रतिपदं योज्यम् । तथा विबुधैर्देवैः श्रितविधि विधियुक्तम् । चारणैर्देवव-

र्णकैश्चाटुगर्भ सचाटु गुरुगुणोद्गारसारम् । गन्धर्वमुख्यैर्विश्वावसुप्रभृतिभिर्गीत्या गानेन ।

मुहुः पुनः पुनरहिपतिभिः फणीन्द्रैः । यातुधानैः पिशाचैर्यतात्म । सार्घमर्धवत्साध्यै-

र्देवविशेषैः । मुनीन्द्रैर्महर्षिभिर्मुदिततममनः सातिशयहृष्टचित्तम् । मोक्षिभिः पक्षपा-

तात् । योगिभिरात्मभावादिति भावः ॥
 

 
भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा-

च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कः ।

निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रप्रकारं
 

तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटकाद्रिम् ॥ ८२ ॥
 

 
तप्तांशुरादित्यो वो युष्मान्पात्ववतु । किं कुर्वन् । पर्यटन्परिसर्पन् । हाटकाद्रिं सु-

वर्णाचलम् । क इव । तत्परीक्षापर इव तस्य परीक्षा तन्निष्ठ इव । परितः समन्तात् ।

कथं तत्परोक्षापरः । त्रिप्रकारं त्रिधा । स्वर्ण हि तद्दाहच्छेदकषणैस्त्रिधा परीक्ष्यते तद्व-

दत्रापि दर्शयति — भासां चक्रवालस्य रुचां कदम्बकस्यासन्नभावान्निकटत्वाद्यस्तापस्त-

[^
.] 'मोक्षभिः' इति पाठ:.
[^
.] 'न्यस्त' इति पाठ:.
[^
.] 'त्रिप्रकारैः' इति पाठः.