2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="78">तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम [^१]कृच्छ्रा-
[^२]त्संहृत्यालोकमात्र [^३]प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥
</verse>
<p text="B" n="78">चण्डांशोस्तीव्रभानोर्मण्डलं वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम
विदधतः । प्रलघु स्तोकम् । आलोकमात्रं आलोको मात्रा प्रमाणं यस्य तत् । आलोक
एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया । अकाण्ड-
त्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो सा संप-
द्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थ-
लीनां मरुस्थलीनामूढानुकारा वृतसादृश्या: । क्व । युगान्ते क्षयसमये । अगेन्द्राश्च
राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति । अतितापात्तडिति स्फुटन्तः सतडत्कारं
विशीर्यमाणाः ॥
</p>
<verse text="A" n="79">उद्यद्दच्यानवाप्यां [^४]बहुलतमतमः पङ्कपूरं विदार्य
प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।
कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं [^५]चण्डभानो-
रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥
</verse>
<p text="B" n="79">चण्डभानोस्तीव्रांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कम-
लमिव पद्ममिव । महद्बृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाका-
रिणा भ्रमरतव्रातविभ्रमेण । असकृदनेकवारम् । किं कुर्वन् । उद्यनुद्गच्छन् । द्यूद्यानवाप्यां
द्यौरेवोद्यानं द्यूद्यानं द्यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगना-
कारतया(रायां)उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा । विदार्य भित्त्वा । किम् ।
बहुलतमतम पङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पङ्कौ-
घस्तं विदार्योदेति । किं च, प्रोद्भिन्नं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं
निरन्तरम् । अरुणच्छाययानुरुप्रभया । विस्फुरन्त्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया
लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं
च । कस्य हेतोः । तृप्तिहेतोः । पानस्य (?) ॥
</p>
<verse text="A" n="80">चक्षुर्दक्षद्विषो यर्न्[^६] तु दहति [^७]पुरः पूरयत्येव कामं
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद्भद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥
</verse>
<ignore>इति मण्डलवर्णनम् ।
[^</ignore>
<footnote mark="१] ">'कृत्स्नं' इति पाठः
[^२] 'आहृत्य' इति पाठ:.
[^३] 'प्रतनु' इति पाठः
[^४] 'बहल' इति पाठः.
[^५] 'चण्डरश्मे:' इति पाठ:
[^६] 'न दहति नितरां' इति पाठः,
[^७] 'पुन:' इति पाठ:.</footnote>
</page>

[^
<footnote mark="१
[^२] 'आहृत्य' इति पाठ:.
[^३] 'प्रतनु' इति पाठः
[^४] 'बहल' इति पाठः.
[^५] 'चण्डरश्मे:' इति पाठ:
[^६] 'न दहति नितरां' इति पाठः,
[^७] 'पुन:' इति पाठ:.</footnote>
</page>