This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम [^१]कृच्छ्रा-

[^२]
त्संहृत्यालोकमात्र
[^३]प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥
 
चण्डांशोस्तीव्रभानोर्मण्डलं
 
प्रैलघु
वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम
विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥
वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम
विदधतः
। प्रलघु स्तोकम् । आलोकमात्रं आलोको मात्रा प्रमाणं यस्य तत् । आलोक

एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया । अकाण्ड-

त्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो सा संप-

द्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थ-

लीनां मरुस्थलीनामूढानुकारा वृतसादृश्या: । क्व । युगान्ते क्षयसमये । अगेन्द्राश्च

राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति । अतितापात्तडिति स्फुटन्तः सतडत्कारं

विशीर्यमाणाः ॥
 

 
उद्यद्दच्यानवाप्यां बे[^४]बहुलतमतमः पङ्कपूरं विदार्य
 

प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।

कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चे[^५]चण्डभानो-
XC
 

रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥

 
चण्डभानोस्तीब्व्रांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कम-

लमिव पद्ममिव । महद्बृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाका-

रिणा भ्रमरत्तव्रातविभ्रमेणं । असकृदनेकवारम् । किं कुर्वन् । उद्यनुद्गच्छन् । द्यूद्यानवाप्यां

द्यौरेवोद्यानं द्यूद्यानं द्यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगना-

कारतया (रायां) उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा । विदार्य भित्त्वा । किम् ।

बहुलतमतम पङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पङ्कोकौ-

घस्तं विदार्योदेति । किं च, प्रोद्भिन्नं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं

निरन्तरम् । अरुणच्छाययानुरुप्रभया । विस्फुरन्त्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया

लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं

च । कस्य हेतोः । तृप्तिहेतोः । पानस्य (?) ॥
 

 
चक्षुर्दक्षद्विषो यर्न्[^६] तु दहति [^७]पुरः पूरयत्येव कामं
 

नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।

यद्वीतश्रान्ति शश्वद्भद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति

ब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥

 
इति मण्डलवर्णनम् ।
 

 
[^
.] 'कृत्स्नं' इति पाठः
[^
.] 'आहृत्य' इति पाठ:.
[^
.] 'प्रतनु' इति पाठः
[^
.] 'बहल'
इति पाठः.
[^
.] 'चण्डरश्मे:' इति पाठ:
[^
.] 'न दहति नितरां' इति पाठः,
[^
.] 'पुन:'
इति पाठ:.
 
/