This page has not been fully proofread.

सूर्यशतकम् ।
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छ्रा-
त्संहत्यालोकमात्र
चण्डांशोस्तीव्रभानोर्मण्डलं
 
प्रैलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥
वो युष्माकं मुदे हर्षाय स्ताद्भवतु । किं कुर्वतः । धाम
विदधतः । प्रलघु स्तोकम् । आलोकमात्रं आलोको मात्रा प्रमाणं यस्य तत् । आलोक
एव तिष्ठते । किं कृत्वा । संहृत्य संक्षिप्य संकोच्य । कृच्छ्रादायासात् । कया । अकाण्ड-
त्रिभुवनदहनाशङ्कया । अकाण्डेऽकाले जगत्प्लोषभीत्या । अकाले त्रिभुवनदाहो सा संप-
द्यतामिति । येनोत्तप्ता मकरवसतयः समुद्राः शुष्यन्ति शोषं यान्ति । मारवीणां स्थ-
लीनां मरुस्थलीनामूढानुकारा वृतसादृश्या: । क्व । युगान्ते क्षयसमये । अगेन्द्राश्च
राजपर्वताः पर्वतराजानो वा तिलतुलां यान्ति । अतितापात्तडिति स्फुटन्तः सतडत्कारं
विशीर्यमाणाः ॥
 
उद्यद्दच्यानवाप्यां बेहुलतमतमः पङ्कपूरं विदार्य
 
प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।
कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चेण्डभानो-
XC
 
रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥
चण्डभानोस्तीब्रांशोः संबन्धि मण्डलं वो युष्माकं कल्याणानि क्रियात्करोतु । यत्कम-
लमिव पद्ममिव । महद्बृहत् । अन्वीतमनुसृतम् । राहुणा सैंहिकेयेन । अलिकुलाका-
रिणा भ्रमरत्रातविभ्रमेणं । असकृदनेकवारम् । किं कुर्वन् । उद्यनुद्गच्छन् । द्यूद्यानवाप्यां
द्यौरेवोद्यानं द्यूद्यानं यूद्यानस्य वापी गगनोपवनपुष्करिणी तत्रेति । कमलमपि गगना-
कारतया (रायां) उपवनपुष्करिण्यामुद्गच्छति । किं कृत्वा । विदार्य भित्त्वा । किम् ।
बहुलतमतम पङ्कपूरं घनतरतिमिरसंघातम् । कमलमपि घनतरतिमिरकल्पो यः पङ्को-
घस्तं विदार्योदेति । किं च, प्रोद्भिनं रञ्जितम् । पत्रपार्श्वेषु वाहनोपान्तेषु । अविरलं
निरन्तरम् । अरुणच्छाययानुरुप्रभया । विस्फुरन्त्या प्रोल्लसन्त्या । कमलमप्यरुणच्छायया
लोहितभासा पत्रोपान्तेषु दलोपान्तेषु भिन्नं रञ्जितं भवति । अलिकुलेनानुगतं सेवितं
च । कस्य हेतोः । तृप्तिहेतोः । पानस्य (?) ॥
 
चक्षुर्दक्षद्विषो यर्न्न तु दहति पुरः पूरयत्येव कामं
 
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥
इति मण्डलवर्णनम् ।
 
१. 'कृत्स्नं' इति पाठः २. 'आहृत्य' इति पाठ:. ३. 'प्रतनु' इति पाठः ४. 'बहल'
इति पाठः. ५. 'चण्डरश्मे:' इति पाठ: ६. 'न दहति नितरां' इति पाठः, ७. 'पुन:'
इति पाठ:.
 
/