This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
दिवसशिरसि । रत्नं मणिः । महिततमं पूजितम् । महद्रुहत् । 'यदेतन्मण्डलं तपति'

इति श्रुतिरित्यपेक्षते ॥
 

 
कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-

विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वः

वह्नेः
सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो
 

 

मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥

 
मार्तण्डीयं सावित्रं मण्डलं वो युष्मान्पुनीतात्पुनातु । किं कुर्वन् । मुष्णन्खण्डयन् ।

कानि । महांसि तेजांसि । कानीव । तमांसीव तिमिराणि यथा । क्व । दिवि खे । किं

तत्रैव । न । भुवि च भूमौ च । यत्रोदयगते उदयस्थे कस्त्राता तारकाणां को रक्षिता न

क्षत्राणाम् । न कश्चिदित्यर्थः । किं पुनः कारणमित्याह –- तत्र पतति ध्वंसते इन्दुश्चन्द्रः ।

क इव । अवश्यायबिन्दुर्यथा तुषारकणवत् । कथंभूतः । तनुरल्पः । इन्दुर्हि तारकाणां

नाथः । तत्र पतति कस्त्रायते । किं च, विद्राणा म्लाना दृग्दृष्टि: स्मरारे: शंभोः ।

मुरारेरुरसि विष्णोर्वक्षसि कौस्तुभो मणिविशेषो नोद्गभस्ति नोन्मयूखः । अपि च वह्ने-

रग्नेः सापह्नवेव सापलापेव युतिः कान्तिः । एतेन सर्वतेजसां मोषः कथितः । उदयगते

यत्रेति प्रत्येकं मेलनीयम् ॥
 
४०
 

 
यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-

दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।

यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
 

विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥

 
रवेरादित्यस्य तन्मण्डलं वो युष्माकं मुक्तये निर्वाणांयास्तु भूयात् । वेदे 'एतस्मिन्म-

ण्डले पुरुषोऽप्येतदमृतं यदेतदचिर्दीप्यते' इति श्रुतिः । अतोऽमृतायास्तु । यद्विश्वानु-

ग्राहि जगदनुग्राहि विश्वं सृजदपि विश्वं विदधदपि । तदेव दर्श्यते –- यत्प्राच्यामैन्द्र्यां

प्राक्प्रथमं चकास्ति दीप्यते । यतश्चोज्जिहानादुद्गच्छतोऽसौ प्राची प्रभवति जयति । य

दह्रोनो दिवसस्य मध्ये इवंद्दं दीप्तं भवति । येन च ततरुचा विस्तारितभासा उत्पाद्यते ज-

न्यते अहो दिवसः । यच्च पर्यायेण लोकाञ्जगन्त्यवति रक्षति । यच्च जगतां जीवितं

प्राणितम् । यथोक्तम् –- 'आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रजासौख्याच देवानां

परा तृप्तिरिति श्रुतिः' ॥
 

 
शुप्ष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां
 

येनोत्तप्ताः स्फुटन्तस्तैत[^१]डिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।
 

 
[^
.] 'चटिति' इति पाठः.