This page has not been fully proofread.

काव्यमाला ।
 
दिवसशिरसि । रत्नं मणिः । महिततमं पूजितम् । महद्रुहत् । 'यदेतन्मण्डलं तपति'
इति श्रुतिरित्यपेक्षते ॥
 
कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-
विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वः सापहवेव इतिरुदयगते यत्र तन्मण्डलं वो
 

 
मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥
मार्तण्डीयं सावित्रं मण्डलं वो युष्मान्पुनीतात्पुनातु । किं कुर्वन् । मुष्णन्खण्डयन् ।
कानि । महांसि तेजांसि । कानीव । तमांसीव तिमिराणि यथा । क्व । दिवि खे । किं
तत्रैव । न । भुवि च भूमौ च । यत्रोदयगते उदयस्थे कस्त्राता तारकाणां को रक्षिता न
क्षत्राणाम् । न कश्चिदित्यर्थः । किं पुनः कारणमित्याह – तत्र पतति ध्वंसते इन्दुश्चन्द्रः ।
क इव । अवश्यायबिन्दुर्यथा तुषारकणवत् । कथंभूतः । तनुरल्पः । इन्दुर्हि तारकाणां
नाथः । तत्र पतति कस्त्रायते । किं च, विद्राणा म्लाना हग्दृष्टि: स्मरारे: शंभोः ।
मुरारेरुरसि विष्णोर्वक्षसि कौस्तुभो मणिविशेषो नोद्गभस्ति नोन्मयूखः । अपि च वह्ने-
रग्नेः सापह्नवेव सापलापेव युतिः कान्तिः । एतेन सर्वतेजसां मोषः कथितः । उदयगते
यत्रेति प्रत्येकं मेलनीयम् ॥
 
४०
 
यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-
दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।
यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
 
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥
रवेरादित्यस्य तन्मण्डलं वो युष्माकं मुक्तये निर्वाणांयास्तु भूयात् । वेदे 'एतस्मिन्म-
ण्डले पुरुषोऽप्येतदमृतं यदेतदचिर्दीप्यते' इति श्रुतिः । अतोऽमृतायास्तु । यद्विश्वानु-
ग्राहि जगदनुग्राहि विश्वं सृजदपि विश्वं विदधदपि । तदेव दर्श्यते – यत्प्राच्यामैन्द्रयां
प्राक्प्रथमं चकास्ति दीप्यते । यतश्चोजिहानादुद्गच्छतोऽसौ प्राची प्रभवति जयति । य
दह्रो दिवसस्य मध्ये इवं दीप्तं भवति । येन च ततरुचा विस्तारितभासा उत्पाद्यते ज-
न्यते अहो दिवसः । यच्च पर्यायेण लोकाञ्जगन्त्यवति रक्षति । यच्च जगतां जीवितं
प्राणितम् । यथोक्तम् – 'आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । प्रजासौख्याच देवानां
परा तृप्तिरिति श्रुतिः' ॥
 
शुप्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां
 
येनोत्तप्ताः स्फुटन्तस्तैडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।
 
१. 'चटिति' इति पाठः.