2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p text="B" n="73">द्वारम् । ते हि सूर्यमण्डलद्वारेण मुक्ति प्रयान्ति । यदखिलभुवनज्योतिषां सकलजगत्ते-
जसामेकमद्वितीयमतुलमाश्रयः । यद्वृष्ट्या हेतुभूतयाम्भसां पानीयानां निधानमाश्रयः ।
यद्धरणिरससुधापानपात्रं पृथिव्युदकामृतपानपात्रम् । महद्बृहत् ॥
</p>
<verse text="A" n="74">वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्र्यग्रहोडु
स्तोकोद्भिन्नस्य चिहप्रसवमिव मधोरास्यमस्यन्म[^१]नांसि ।
प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥
</verse>
<p text="B" n="74">पूष्णो रवेर्मण्डलं वो युष्माकमशुभानि दुरितानि प्रशमयतु ध्वंसयतु । प्रातः प्रभाते ।
अद्रेः पर्वतस्य शिरःशेखरीभूतं मूर्धालंकारभूतम् । पुरस्तात्पूर्वस्यां दिशि भवः पौरस्त्यः
प्राच्यस्तस्य । उद्गभस्ति उदंशु । प्रकृष्टं स्तिमितं स्तिमिततमं बहुलतमं यत्तमस्तिमिरं
तस्य ध्वंसनम् । तदेव विशेषयितुमाह -- यत्सिन्धोः पयोधेः पय इव जलमिव वेलाव-
र्धिष्णु । वेलया कालमुहूर्तसमयेन वर्धनशीलम् । उदधेरपि पयोवेला जलवृद्धि तथा व-
र्धिष्णु भवति । अत्र वेला समुद्रक्षोभः । किं च, खमिव नभ इव अधोद्गताग्र्यग्रहोडु
मनागुद्भिन्नप्रधानग्रहनक्षत्रम् । अन्यत्र अर्धोद्गता अग्रेभवा: पौरस्त्या ग्रहा नक्षत्राणि
यस्य तत्तथोक्तम् । तत्तेजसाभिभूतत्वात्किंचिदुपलभ्यमाना उक्ताः । किं च मधोरास्य-
मिव वसन्तस्य प्रवेश इव । किंभूतम् । स्तोकोद्भिन्नस्वचिह्नप्रसवमीषदुद्भिन्ननिजचिह्ना-
विर्भावम् । अन्यत्र स्तोकमुद्भिन्नरुच (?) आविर्भावो यत्र तत्स्वचिह्नं लक्षणं यस्येति ।
प्रसवं पुष्पं यत्र मध्वास्ये (अन्यत्र ) । किं कुर्वन् । अपहरन्मनांसि चेतांसि । जनानामि-
त्यध्याहारः ॥
</p>
<verse text="A" n="75">प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचल: पद्मरागेण येन
ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममहोमूर्ध्नि रत्नं महद्य-
द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥
</verse>
<p text="B" n="75" merge-text="true">तदेवंभूतं दीप्तांशोर्भानोः संबन्धि मण्डलं वो युष्मानव्याद्रक्षतु । प्रातरुषसि । किंभू-
तम् । अविकलं जगन्मण्डनं विश्वालंकारः । पुनरपि कीदृशं तत् । येन मण्डलेनाचलः
पर्वतः प्रत्युप्तः प्रोतः । पद्मरागेण पद्मभासा । कीदृशः । तप्तहेमोज्ज्वलरुचिस्तप्तकाञ्च-
नदीप्तिः। पद्मरागेणेति शब्दच्छलेन पद्मरागमणितां दर्शयति । किंभूतं यत् । ज्याय: प्रश-
स्यतरम् । किंजल्कपुञ्जः पद्मपराग(केसर)राशिरिव । कस्य । अम्बरेन्दीवरस्य गगनकुव-
लयस्य । अलिकुलशितेर्भ्रमरवृन्दनीलस्य । चिह्नं शिरोरत्नं (कालव्यालस्य) अहोमूर्ध्नि
[^</p>
<footnote mark="१] ">'महांसि' इति पाठ:.</footnote>
</page>

[^
<footnote mark="१
</page>