This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
द्वारम् । ते हि सूर्यमण्डलद्वारेण मुक्ति प्रयान्ति । यदखिलभुवनज्योतिषां 'सकलजगत्ते-

जसामेकमद्वितीयमतुलमाश्रयः । यदृद्वृष्ट्या हेतुभूतयाम्भसां पानीयानां निधानमाश्रयः ।

यद्धरणिरससुधापानपात्रं पृथिव्युदकामृतपानपात्रम् । महद्बृहत् ॥

 
वेलावर्धिष्णु सिन्धोः पय इव खमिवार्थोधोद्गतात्र्यग्र्यग्रहो
डु
स्तोकोद्भिन्नस्य चिहप्रसवमिव मधोरास्यमस्यन्म[^१]नांसि ।

प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
 

पौरस्त्यस्योद्गभस्तिस्तिमिततमतमः खण्डनं मण्डलं वः ॥ ७४ ॥
 
३९
 

 

 
पूष्णो रवेर्मण्डलं वो युष्माकमशुभानि दुरितानि प्रशमयतु ध्वंसयतु । प्रातः प्रभाते ।

अद्रेः पर्वतस्य शिरःशेखरीभूतं मूर्धीधालंकारभूतम् । पुरस्तात्पूर्वस्यां दिशि भवः पौरस्त्यः

प्राच्यस्तस्य । उद्गभस्ति उदंशु । प्रकृष्टं स्तिमितं स्तिमिततमं बहुलतमं यत्तमस्तिमिरं

तस्य ध्वंसनम् । तदेव विशेषयितुमाह -- यत्सिन्धोः पयोधेः पय इव जलमिव वेलाव-

र्धि
ष्णु । वेलया कालमुहूर्तसमयेन वर्धनशीलम् । उदधेरपि पयोवेला जलवृद्धि तथा व
घि
-
र्धि
ष्णु भवति । अत्र वेला समुद्रक्षोभः । किं च, खमिव नभ इव अधोद्गतात्ग्र्यग्रहोडु

मनागुद्भिन्नप्रधान ग्रहनक्षत्रम् । अन्यत्र अर्धोद्गता अग्रेभवा: पौरस्त्या ग्रहा नक्षत्राणि

यस्य तत्तथोक्तम् । तत्तेजसाभिभूतत्वात्किकिंचिदुपलभ्यमाना उक्ताः । किं च मधोरास्य-

मित्र वसन्तस्य प्रवेश इव । किंभूतम् । स्तोकोद्भिन्नस्वचिह्नप्रसवमीषदुद्भिन्न निजचिह्ना-

विर्भावम् । अन्यत्र स्तोकमुद्भिन्नरुच (?) आविर्भावो यत्र तत्स्वचिह्नं लक्षणं यस्येति ।

प्रसवं पुष्पं यत्र मध्वास्ये ( अन्यत्र ) । किं कुर्वन् । अपहरन्मनांसि चेतांसि । जनानामि-
"
 

त्यध्याहारः ॥
 

 
प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचल: पद्मरागेण येन
 

ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।

कालव्यालस्य चिह्नं महिततममहोमूर्ध्नि रत्नं महद्य-

द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥

 
तदेवंभूतं दीप्तांशोर्भानोः संबन्धि मण्डलं वो युष्मानव्याद्रक्षतु । प्रातरुषसि । किंभू-

तम् । अविकलं जगन्मण्डनं विश्वालंकारः । पुनरपि कीदृशं तत् । येन मण्डलेनाचलः

पर्वतः प्रत्युप्तः प्रोतः । पद्मरागेण पद्मभासा । कीदृशः । तप्तहेमोज्ज्वलरुचिस्तप्तकाञ्च-
`

नदीप्तिः। पद्मरागेणेति शब्दच्छलेन पद्मरागमणितां दर्शयति । किंभूतं यत् । ज्याय: प्रश-

स्यतरम् । किंजल्कपुञ्जः पद्मपराग (केसर)राशिरिव । कस्य । अम्बरेन्दीवरस्य गगनकुव-

लयस्य । अलिकुलशितेर्भ्रमरवृन्दनीलस्य । चिह्नं शिरोरत्नं (कालव्यालस्य) अहोमूर्ध्नि
 

 
[^
,] 'महांसि' इति पाठ:.