2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p text="B" n="71">जान्तान्ध्वजाग्रान् । अक्षं चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः । अरुणमनूरुं वरुणः पा-
शभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रंहो वेगं संघ: समूहः पूगः सुराणां
देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥
</p>
<verse text="A" n="72">नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।
भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो
दिश्यालक्ष्मीम[^१]पारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥
</verse>
<ignore>इति रथवर्णनम् ।
</ignore>
<p text="B" n="72">अशिशिरकिरणस्यन्दनस्तीव्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मीं श्रियं दि-
श्याद्दयात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् ।
भ्राम्यन्व्योमाम्बुराशौ नभः पयोधौ । क इव । मन्दराद्रिरिव मन्दराचल इव । अपरो-
ऽन्यः । तयोः साम्यं दर्श्यते –- नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहि-
तपरिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तद -
हीनश्चेति समासः । यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी स-
मासः । तेन विहितपरिकरः कृतवेष्टनः । क्व । मूले मूलप्रदेशे । किं च, स्तुतो व-
न्दितः । सिद्धसाध्यैर्देवविशेषैः । पादोपान्ते चरणसमीपे स्थितैः । तस्य पूज्यत्वात् । म
न्दरोऽपि तैः स्तुतो वर्णितः । तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर(पर्वत)समीपे ।
मरुद्भिर्देवैर्वायुभिर्वा । अलमत्यर्थम् । किं च बलिनो बलवन्तस्ते च ते हरयश्च तेषां र
भसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः
हरिः शतमखस्तयो रभस इति । शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्ती-
र्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥
</p>
<verse text="A" n="73" mark="२">[^२१]यज्ज्यायो बीजमह्नाम[^३]पहततिमिरं चक्षुषामञ्जनं य-
द्दूरं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-
द्दिश्यादी[^४]शस्य भासां [^५]तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥
</verse>
<p text="B" n="73" merge-text="true">तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणम वि
कलं संपूर्णमलमत्यर्थं दिश्यात् । तदेव निरूप्यते -– यहां दिनानां बीजं कारणम् ।
ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशिता-
न्धकारम् ! अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां
[^</p>
<footnote mark="१] ">'अतुल्यां' इति पाठ:.
[^२] 'ज्यायो यत्' इति पाठ:.
[^३] 'अपहृत' इति पाठः.
[^४] 'देवस्य भानो:' इति पाठ:
[^५] 'तदधिकममलं मण्डलं मङ्गलं' इति पाठ:.</footnote>
</page>
<p text="B" n="71">जान्तान्ध्वजाग्रान् । अक्षं चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः । अरुणमनूरुं वरुणः पा-
शभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रंहो वेगं संघ: समूहः पूगः सुराणां
देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥
<verse text="A" n="72">नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।
भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो
दिश्यालक्ष्मीम[^१]पारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥
<ignore>इति रथवर्णनम् ।
<p text="B" n="72">अशिशिरकिरणस्यन्दनस्तीव्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मीं श्रियं दि-
श्याद्दयात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् ।
भ्राम्यन्व्योमाम्बुराशौ नभः पयोधौ । क इव । मन्दराद्रिरिव मन्दराचल इव । अपरो-
ऽन्यः । तयोः साम्यं दर्श्यते –- नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहि-
तपरिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तद -
हीनश्चेति समासः । यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी स-
मासः । तेन विहितपरिकरः कृतवेष्टनः । क्व । मूले मूलप्रदेशे । किं च, स्तुतो व-
न्दितः । सिद्धसाध्यैर्देवविशेषैः । पादोपान्ते चरणसमीपे स्थितैः । तस्य पूज्यत्वात् । म
न्दरोऽपि तैः स्तुतो वर्णितः । तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर(पर्वत)समीपे ।
मरुद्भिर्देवैर्वायुभिर्वा । अलमत्यर्थम् । किं च बलिनो बलवन्तस्ते च ते हरयश्च तेषां र
भसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः
हरिः शतमखस्तयो रभस इति । शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्ती-
र्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥
<verse text="A" n="73" mark="२">[^
द्दूरं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-
द्दिश्यादी[^४]शस्य भासां [^५]तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥
<p text="B" n="73" merge-text="true">तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणम वि
कलं संपूर्णमलमत्यर्थं दिश्यात् । तदेव निरूप्यते -– यहां दिनानां बीजं कारणम् ।
ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशिता-
न्धकारम् ! अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां
[^
<footnote mark="१