This page has been fully proofread once and needs a second look.

३८
 
काव्यमाला ।
 
जान्तान्ध्वजाग्रान् । अक्षं चक्राधारकाष्ठं नक्षत्रनाथश्चन्द्रमाः । अरुणमनूरुं वरुणः पा-

शभृत् । कूबराग्रं युगंधरप्रान्तं कुबेर ऐलविलः । रंहो वेगं संघ: समूहः पूगः सुराणां

देवानाम् । नित्ययुक्तस्य नित्योद्यतस्य जगदुपकृतये विश्वोपकाराय ॥

 
नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
 

पादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।

भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो

दिश्यालक्ष्मीमैम[^१]पारामतुलितमहिमेवापरो
मन्दराद्रिः ॥ ७२ ॥
 
इति रथवर्णनम् ।
 

 
अशिशिरकिरणस्यन्दनस्तीत्व्रमयूखरथो वो युष्मभ्यं संततमनवरतं लक्ष्मीं श्रियं दि-

श्याद्दयात् । अपारामनल्पीयसीम् । अतुलितमहिमा अपरिमितमाहात्म्यः । किं कुर्वन् ।

भ्राम्यन्व्योमाम्बुराशौ नभः पयोधौ । क इव । मन्दराद्रिरिव मन्दराचल इव । अपरो-

ऽन्यः । तयोः साम्यं दर्श्यते –- नेत्रा सारथिना हीनेन विकलेन मूलेऽधोभागे विहि-

तपरिकरः कृतोद्यमः । मन्दरेऽपि नेत्रं वेष्टनरज्जुः । अहीनो नागराजः । नेत्रं च तद -

हीनश्चेति समासः । यदि वा नेत्रभूतोऽहीनः । शाकपार्थिवादित्वान्मध्यमपदलोपी स-

मासः । तेन विहितपरिकरः कृतवेष्टनः । क्व । मूले मूलप्रदेशे । किं च, स्तुतो व-

न्दितः । सिद्धसाध्यैर्देवविशेषैः । पादोपान्ते चरणसमीपे स्थितैः । तस्य पूज्यत्वात् । म

न्दरोऽपि तैः स्तुतो वर्णितः । तस्यासन्नत्वात् । पादोपान्ते प्रत्यन्तनगर (पर्वत) समीपे ।

मरुद्भिर्देवैर्वायुभिर्वा । अलमत्यर्थम् । किं च बलिनो बलवन्तस्ते च ते हरयश्च तेषां र

भसो हेला तेनाकर्षणं तेनाबद्धो गृहीतो वेगो यस्य स तथोक्तः । इतरस्तु बलिर्वैरोचनिः

हरिः शतमखस्तयो रभस इति । शेषं समानम् । मन्दरविषये व्योमवदम्बुराशौ विस्ती-

र्णत्वादिति योज्यम् । संततमिति भ्रमणस्य विशेषणम् ॥ इति रथवर्णनव्याख्यानम् ॥

 
[^२]
यज्ज्यायो बीजमहामँह्नाम[^३]पहततिमिरं चक्षुषामञ्जनं य
 
द्वा
-
द्दू
रं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यदृ

यद्वृ
ष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-

द्दिश्यादी[^४]शस्य भासां तँ[^५]तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥

 
तदेवंभूतं मण्डलं भासामीशस्य भानोः संबन्धि वो युष्मभ्यं मङ्गलं कल्याणम वि

कलं संपूर्णमलमत्यर्थेथं दिश्यात् । तदेव निरूप्यते -– यहां दिनानां बीजं कारणम् ।

ज्यायः प्रशस्यतरम् । यच्चक्षुषां नेत्राणामञ्जनं प्रकाशकम् । अपहततिमिरं विनाशिता-

न्धकारम् ! अञ्जनमपि चक्षुषां तिमिरं रोगविशेषमपहरति । यन्मुक्तिभाजां योगिनां
 
मन्दराद्रिः ॥ ७२ ॥
 

 
[^
.] 'अतुल्यां' इति पाठ:.
[^
.] 'ज्यायो यत्' इति पाठ:.
[^
.] 'अपहृत' इति पाठः.

[^
.] 'देवस्य भानो:' इति पाठ:
[^
.] 'तदधिकममलं मण्डलं मङ्गलं' इति पाठ:.