This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="69">
तीव्रभानोरादित्यस्य रथो वो युष्मानव्यात्पायात् । दिवि खे व्यक्तचिह्नो विस्पष्ट-

लक्ष्मा । भुवि यथा भूम्यामिव । सा यस्य नाकालयानां घुसदां पङ्क्तिर्विततिरेव पद्धतिः

पदवी । किंभूतानाम् । अनुयतामनुगच्छताम् । नन्तुं प्रणामाय । अनिशमहर्निशम् ।

किं च, नक्षत्रराशेर्भचक्रस्य क्षोदश्चूर्ण एव धूलि: परागः । अदयरयमिलन्नेमिपिष्टस्य

प्रखरवेगसंसक्तचक्रधारानिर्दलितस्य । हेषाह्रादो हेषाध्वनिः । हरीणां वाजिनां यः स

एव नेमेर्नादः प्रतिध्वानः सुरशिखरिदरी: पूरयन् देवाचलकंदराणि पूर्णा: कुर्वन् । अथ

वा हेषाह्रादो हरीणां सुरशिखरिदरी: पूरयन्नेमिनादश्चेति सुरशिखरिदरी: पूरयन्यस्येति

पृथगेव संबन्धनीयम् । भुवि यानि चिह्नानि धूलिहेषानेमिध्वनयस्तान्यनया भङ्ग्या वि-

यत्यपि दर्शितानि ॥
 
</p>
<verse text="A" n="70">
निःस्पन्दानां विमानावलिवित[^१]तदिवां देववृन्दारकाणां

वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।

मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे [^२]मन्दिराभे

मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥
 
</verse>
<p text="B" n="70">
दिनकृतः स्यन्दनो रविरथो वो युष्माकं मुदे हर्षाय स्ताद्भूयात् । किं कुर्वन् । दध-

द्बिभ्रत् । अरि चक्रम् । मण्डितारं विभूषितारम् । कैः । मन्दारैर्वृक्षविशेषपुष्पैः । यश्चा-

मन्दः शीघ्रो मन्दाकिन्यां पुलिनभृति पुलिनभाजि । देववृन्दारकाणां सुरमुख्यानां व

न्दितुं स्तोतुं विन्दतां लभमानानां नो नेति । किं कुर्वताम् । वहतां धावताम् । कैः ।

वृन्दैः संघातैः पूगशः । निःस्पन्दानां श्रान्तानाम् । विमानावलिविततदिवां विमानश्रे-

णिप्रच्छादितनभसाम् । कथं वहताम् । आनन्दसान्द्रोद्यमं संहर्षप्रभूतोत्साहम् । मन्दरे

पर्वतविशेषे मृदुर्मन्दः । मन्दिराभे नगरानुकारे । मन्दिरशब्दो नगरैकदेशेऽप्युपचारात्स-

मुदाये वर्तते । नगरं हि स्थपुटत्वाद्रथस्य वेगं स्खलयति । ततस्तत्र मन्दता युज्यते ।

देववृन्दारकाणां वृन्दैः कर्तृभिर्मन्दारैः करणभूतैर्मण्डितारमिति च ॥
 
</p>
<verse text="A" n="71">
चक्री चक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता-

नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।

रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य

स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरु[^३]चेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥
 
</verse>
<p text="B" n="71" merge-text="true">
अहिमरुचेरादित्यस्य स्यन्दनो रथो वो युष्मानवताद्रक्षतु । यस्यान्वहं प्रतिदिवसमे-

तदेतदयमयं स्तौति । प्रीतिप्रसन्नः प्रीतितुष्टः । तदेव दर्श्यते –- चक्री विष्णुश्चक्रारपङ्क्तिं

चरणारपङ्क्तिं स्तौतीति संबन्ध: । हरिरिन्द्रो हरीनश्वान । धूर्जटिर्भगवानीश्वरो धूर्ध्व-
 
[^
</p>
<footnote mark="
] ">'वलित दिशां' इति पाठ:.

[^२] 'मन्दराभे' इति पाठ:. 'मन्दर: स्वर्गः' इति त्रि-

काण्डशेषः तेन स्वर्गाभे इत्यर्थ:

[^३] 'रुचः' इति पाठ:.</footnote>
</page>