2023-02-23 18:32:33 by ambuda-bot
This page has not been fully proofread.
सूर्यशतकम् ।
तीव्रभानोरादित्यस्य रथो वो युष्मानव्यात्पायात् । दिवि खे व्यक्तचिह्नो विस्पष्ट-
लक्ष्मा । भुवि यथा भूम्यामिव । सा यस्य नाकालयानां घुसदां पतिर्विततिरेव पद्धतिः
पदवी । किंभूतानाम् । अनुयतामनुगच्छताम् । नन्तुं प्रणामाय । अनिशमहर्निशम् ।
किं च, नक्षत्रराशेर्भचक्रस्य क्षोदचूर्ण एव धूलि: परागः । अदयरयमिलन्नेमिपिष्टस्य
प्रखर वेगसंसक्तचक्रधारा निर्दलितस्य । हेषाह्लादो हेषाध्वनिः । हरीणां वाजिनां यः स
एव नेमेर्नादः प्रतिध्वानः सुरशिखरिदरी: पूरयन् देवाचलकंदराणि पूर्णा: कुर्वन् । अथ
वा हेषाह्लादो हरीणां सुरशिखरिदरी: पूरयन्नेमिनाद श्चेति सुरशिखरिदरी: पूरयन्यस्येति
पृथगेव संबन्धनीयम् । भुवि यानि चिह्नानि धूलिहेषानेमिध्वनयस्तान्यनया भङ्गया वि-
यत्यपि दर्शितानि ॥
निःस्पन्दानां विमानावलिवितैतदिवां देववृन्दारकाणां
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मैन्दिराभे
मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥
दिनकृतः स्यन्दनो रविरथो वो युष्माकं मुदे हर्षाय स्ताद्भूयात् । किं कुर्वन् । दध-
द्विभ्रत् । अरि चक्रम् । मण्डितारं विभूषितारम् । कैः । मन्दारैर्वृक्षविशेषपुष्पैः । यश्चा-
मन्दः शीघ्रो मन्दाकिन्यां पुलिनभृति पुलिनभाजि । देववृन्दारकाणां सुरमुख्यानां व
न्दितुं स्तोतुं विन्दतां लभमानानां नो नेति । किं कुर्वताम् । वहतां धावताम् । कैः ।
वृन्दैः संघातैः पूगशः । निःस्पन्दानां श्रान्तानाम् । विमानावलिविततदिवां विमानश्रे-
णिप्रच्छादितनभसाम् । कथं वहताम् । आनन्दसान्द्रोद्यमं संहर्षप्रभूतोत्साहम् । मन्दरे
पर्वतविशेषे मृदुर्मन्दः । मन्दिराभे नगरानुकारे । मन्दिरशब्दो नगरैकदेशेऽप्युपचारात्स-
मुदाये वर्तते । नगरं हि स्थपुटत्वाद्रथस्य वेगं स्खलयति । ततस्तत्र मन्दता युज्यते ।
देववृन्दारकाणां वृन्दैः कर्तृभिर्मन्दारैः करणभूतैर्मण्डितारमिति च ॥
चक्री चक्रारपति हरिरपि च हरीन्धूर्जटिधूंर्ध्वजान्ता-
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुँचेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥
अहिमरुचेरादित्यस्य स्यन्दनो रथो वो युष्मानवताद्रक्षतु । यस्यान्वहं प्रतिदिवसमे-
तदेतदयमयं स्तौति । प्रीतिप्रसन्नः प्रीतितुष्टः । तदेव दर्श्यते – चक्री विष्णुश्चक्रारपङ्कि
चरणारपङ्गिं स्तौतीति संबन्ध: । हरिरिन्द्रो हरीनश्वान । धूर्जटिर्भगवानीश्वरो धूर्ध्व-
१. 'वलित दिशां' इति पाठ:. २. 'मन्दराभे' इति पाठ:. 'मन्दर: स्वर्गः' इति त्रि-
काण्डशेषः तेन स्वर्गाभे इत्यर्थ: ३. 'रुचः' इति पाठ:.
.
"