This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="67">
अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं

धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।

[^१]चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यं

वन्दन्ते यं द्युमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥
 
</verse>
<p text="B" n="67">
अंशुमत्स्यन्दनो भास्वद्रथः स वो युष्माकं पापानि दुरितानि नुदत्वपनयतु । यं सि

द्धवध्वः सिद्धस्त्रियो वन्दन्ते नमस्यन्ति । युमार्गे विहायसि । त्रिसंध्यं त्रिकालम् ।

तिस्रः संध्या वन्दन्ते । क्रियाविशेषणम् । किं कृत्वा । रक्षां मङ्गलविशेषं निबध्य बद्द्वा ।

अक्षे रथावयवविशेषे । प्रतिसरवलयैः कौतुकोर्णकङ्कणैर्योजयन्त्यो युगाग्रं युगप्रान्तम् ।

पुनरपि स्तम्भ इव धूर्धूःस्तम्भस्तत्र दग्धधुपाः । प्रहितसुमनसो विक्षिप्तपुष्पाः । क्व ।

गोचरे विषये कूबरस्य युगंधरोद्देशस्य । चर्चाः स्थासकान् चक्रे पादे ददत्यो यच्छन्त्यः ।

केन । मलयजपयसा चन्दनाम्भसा ॥
 
</p>
<verse text="A" n="68">
उत्कीर्णस्वर्णरे[^२]णुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै-

रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।

मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्य

[^३]स्वोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥
 
</verse>
<p text="B" n="68">
रवेरादित्यस्य स्यन्दनस्यैकवीथी एकमार्गो वो युष्माकमधं पापं विघटयतु । केव ।

स्वर्धुनीव गङ्गेव । किंभूतासौ । द्रुतखुरदलिता चटुलशफदारिता पार्श्वयोः । कैः।

अश्वैः । शश्वदनवरतम् । कथम् । उत्कीर्णः स्वर्णरेणुर्यत्र दलने तत् । उत्कीर्णस्वर्णरेण-

वश्च ते द्रुताः खुराश्चेति (वा) विशेषणसमासः । किं च, अश्रान्तभ्रान्तचक्रक्रमनिखि-

लमिलन्नेमिनिम्ना । अश्रान्तमनवरतं यद्भ्रान्तं चक्रं चरणस्तस्य क्रमः क्रमणं तेन नि-

खिला समग्रा मिलन्ती घटमाना या नेमिश्चक्रधारा तथा निम्ना अवनता । भरेण प्रा-

ग्भारेण हेतुना । मेरोर्देवाचलस्य मूर्ध्नि शिरसि । किं च, स्वोष्मणा उदक्तमाकृष्टं तच्च

तदम्बु चेति तेन रिक्तं रिक्तत्वादेव प्रकटितं तच्च तत्पुलिनं च तेनोद्धूसरा पाण्डुः । स्व-

र्धुन्यप्यूष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा भवति ॥
 
</p>
<verse text="A" n="69">
नन्तुं नाकालयानामनिशम[^४]नुयतां पद्धतिः पङ्किरेव

क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।

हेषाह्रा [^५]दो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो

यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९
 
[^
</verse>
<footnote mark="
] ">'चर्चा' इति पाठः.

[^२] 'रेणुद्रुत' इति पाठ:.

[^३] 'स्वोष्मोदस्ताम्बु' इति पाठ :.

[^४] 'उपयतां' इति पाठ:.

[^५] 'नादो' इति पाठ:.</footnote>
</page>