This page has not been fully proofread.

لله
 
us
 
काव्यमाला ।
 
अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं
धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।
चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यं
 

 
वन्दन्ते यं मार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥
अंशुमत्स्यन्दनो भास्वद्रथः स वो युष्माकं पापानि दुरितानि नुदत्वपनयतु । यं सि
द्धवध्वः सिद्धस्त्रियो वन्दन्ते नमस्यन्ति । युमार्गे विहायसि । त्रिसंध्यं त्रिकालम् ।
तिस्रः संध्या वन्दन्ते । क्रियाविशेषणम् । किं कृत्वा । रक्षां मङ्गलविशेषं निबध्य बना।
अक्षे रथावयवविशेषे । प्रतिसरवलयैः कौतुकोणकङ्कणैर्योजयन्त्यो युगाग्रं युगप्रान्तम् ।
पुनरपि स्तम्भ इव धूर्धूःस्तम्भस्तत्र दग्धधुपाः । प्रहितसुमनसो विक्षिप्तपुष्पाः । क्व ।
गोचरे विषये कूबरस्य युगंधरोद्देशस्य । चर्चाः स्थासकान् चक्रे पादे ददत्यो यच्छन्त्यः ।
केन । मलयजपयसा चन्दनाम्भसा ॥
 
उत्कीर्णस्वर्णरेणुद्रुतखुरदलिता पार्श्वयोः शश्वदश्चै-
रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।
मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्य
 
खोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥
रवेरादित्यस्य स्यन्दनस्यैकवीथी एकमार्गो वो युष्माकमधं पापं विघटयतु । केव ।
स्वर्धुनीव गङ्गेव । किंभूतासौ । द्रुतखुरदलिता चटुलशफदारिता पार्श्वयोः । कैः।
अश्वैः । शश्वदनवरतम् । कथम् । उत्कीर्णः स्वर्णरेणुर्यत्र दलने तत् । उत्कीर्णस्वर्णरेण-
वश्च ते द्रुताः खुराश्चेति (वा) विशेषणसमासः । किं च, अश्रान्तभ्रान्तचक्रक्रम निखि-
लमिलन्नेमिनिम्ना । अश्रान्तमनवरतं यान्तं चक्रं चरणस्तस्य क्रमः ऋमणं तेन नि-
खिला समग्रा मिलन्ती घटमाना या नेमिश्चक्रधारा तथा निम्ना अवनता । भरेण प्रा-
ग्भारेण हेतुना । मेरोर्देवाचलस्य मूर्ध्नि शिरसि । किं च, स्वोष्मणा उदक्तमाकृष्टं तच्च
तदम्बु चेति तेन रिक्तं रिक्तत्वादेव प्रकटितं तच्च तत्पुलिनं च तेनोद्धूसरा पाण्डुः । स्व-
र्धुन्यप्यूष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा भवति ॥
 
नन्तुं नाकालयानामनिशमैनुयतां पद्धतिः पङ्किरेव
क्षोदो नक्षत्रराशेरदयरयमिलच्चऋपिष्टस्य धूलिः ।
हेषाहीदो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो
 
'यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९॥
१. 'चर्चा' इति पाठः. २. 'रेणुद्रुत' इति पाठ:. ३. 'स्वोष्मोदस्ताम्बु' इति पाठ :.
४. 'उपयतां' इति पाठ:. ५. 'नादो' इति पाठ:.