This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="64">
य: । काभ्याम् । गरुत्मत्पक्षाभ्याम् । तौ च तौ विहितबृहत्पक्षौ च तयोर्विक्षेपस्तेन

शोभा यस्येति ॥
 
</p>
<verse text="A" n="65" mark="१">
[^१]एकाहेनैव दी[^२]र्घां त्रिभुवनपदवीं लङ्घयन्यो लविष्ठः

पृष्ठे मेरोर्गरीयान्दलितमणिदृषविषि पिंषञ्शिरांसि ।

सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्ध्नि

ब्रघ्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥
 
</verse>
<p text="B" n="65">
ब्रध्नस्य गभस्तिमतः स्यन्दनो रथो वो युष्मानव्याद्रक्षतु । एवमनया भङ्ग्या दुरधिं-

गमपरिस्पन्दनो दुरवधारव्यापारः । तदेव दर्श्यते -- एकाहेनैव एकदिनेनैव दीर्घामायतां

त्रिभुवनपदवीं त्रिलोकमार्गं लङ्घयन् यो लघिष्टो लघुतरः । एतेन शीघ्रगतिमत्ता दर्शिता ।

तथा गरीयान्गुरुतरः । पृष्ठे मेरोर्देवालयस्य । किं कुर्वन् । पिंषंश्चूर्णयन् । शिरांसि शि-

खराणि । कीदृशानि । दलिता खण्डिता या मणिदृषदस्ताभिस्त्विषो येषु । यदि वा द-

लिता इतस्ततो विक्षिप्ता मणिदृषत्त्विषो येषु तानि तथोक्तानि । एतेन गुरुतरता ख्या-

पिता । य: सर्वस्य निःशेषस्य लोकस्योपरिष्टादुपरि पूज्यत्वेन दिक्संबन्धेन वा । अथ च

पुनर्भूयोऽध्यधस्तादिवाध इव अस्ताद्रिमूर्धन्यस्तपर्वतमस्तके । एतेनाधउपरिभावो

दर्शितः । एकान्ततः परमार्थतो न लघुर्न गुरुर्नोपरि नाथ इति व्यपदेष्टुं न शक्यते । अत

एव दुरधिगमपरिस्पन्दन इत्युक्तम् ॥
 
</p>
<verse text="A" n="66">
धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि [^३]दूरं

राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।

श्रान्ताश्वश्वासहेलाधुतविबुधधुननिर्झराम्भांसि भद्रं

देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥
 
</verse>
<p text="B" n="66">
भद्रं कल्याणं वो युष्मभ्यं देवासुर्दिशन्तु । स्यन्दनप्रस्थितानि रथगतानि । कस्यासौ

रथः । दिवसपतेर्दिनपतेः । स्यन्दनप्रस्थितानीति सापेक्षत्वेऽपि समासो गमकत्वात् । क्व

प्रस्थितानि । दवीयो दिवि दूरतरगगने । भद्रदानक्रियाविशेषणं वा दवीय इति । तदा द

वीयोऽतीवतरामित्यर्थः । तान्येव विशेष्यन्ते—-धूर्ध्वस्ताग्र्यग्रहाणि धुरा ध्वस्ता विक्षिप्ता

अग्र्या अग्रे भवा ग्रहा: कुजादयो यैस्तानि तथोक्तानि । किंच । ध्वजपटपवनेन ध्वजां-

शुकमरुता आन्दोलितो विकम्पित इन्दुश्चन्द्रमा येषु तानि । तथा दूरमतीवतया राहौ

तमसि पुनर्भूयोऽपि दत्ता चक्रेण व्यथा भयं यैस्तानि । ग्रासाभिलाषादनुसरति । अनु-

सरंश्चक्रमपेक्षमाणस्ततो बिभेति । श्रान्ताश्वश्वासहेलाधुतविबुधधुनीति धुतानि कम्पि

तानि विबुधधुनीनिर्झराम्भांसि सुरनदीप्रस्रवणजलानि येषु तान्येवंभूतानि ॥
 
[^
</p>
<footnote mark="
] ">अयं श्लोकः पुस्तकान्तर एकोनसप्ततितमो वर्तते.

[^२] 'कृत्स्नां' इति पाठः.

[^३] 'दूरात्' इति पाठ:.</footnote>
</page>