This page has not been fully proofread.

सूर्यशतकम् ।
 
य: । काभ्याम् । गरुत्मत्पक्षाभ्याम् । तौ च तौ विहितबृहत्पक्षौ च तयोविक्षेपस्तेन
शोभा यस्येति ॥
 
एकाहेनैव दीर्घौ त्रिभुवनपदवीं लङ्घयन्यो लविष्ठः
 
पृष्ठे मेरोर्गरीयान्दलितमणिदृषविषि पिंषञ्शिरांसि ।
सर्वस्यैवोपरिष्टादश च पुनरस्तादिवास्ताद्रिमूर्ध्नि
 
ब्रघ्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥
ब्रध्नस्य गभस्तिमतः स्यन्दनो रथो वो युष्मानव्याद्रक्षतु । एवमनया भङ्गया दुरधिं-
गमपरिस्पन्दनो दुरवधारव्यापारः । तदेव दर्श्यते - एकाहेनैव एकदिनेनैव दीर्घामायतां
त्रिभुवनपदवीं त्रिलोकमार्ग लङ्घयन् यो लघिष्टो लघुतरः । एतेन शीघ्रगतिमत्ता दर्शिता ।
तथा गरीयान्गुरुतरः । पृष्ठे मेरोर्देवालयस्य । किं कुर्वन् । पिंषंचूर्णयन् । शिरांसि शि-
खराणि । कीदृशानि । दलिता खण्डिता या मणिदृषदस्ताभिस्त्विषो येषु । यदि वा द-
लिता इतस्ततो विक्षिप्ता मणिदृषत्त्विषो येषु तानि तथोक्तानि । एतेन गुरुतरता ख्या-
पिता । य: सर्वस्य निःशेषस्य लोकस्योपरिष्टादुपरि पूज्यत्वेन दिक्संबन्धेन वा । अथ च
पुनर्भूयोऽध्यधस्तादिवाध इव अस्ताद्रिमूर्धन्यस्तपर्वतमस्तके । एतेनाधउपरिभावो
दर्शितः । एकान्ततः परमार्थतो न लघुर्न गुरुर्नोपरि नाथ इति व्यपदेष्टुं न शक्यते । अत
एव दुरधिगमपरिस्पन्दन इत्युक्तम् ॥
 
धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि रं
राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।
श्रान्ताश्वश्वासहेलाधुतविबुधधुननिर्झराम्भांसि भद्रं
 
देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥
भद्रं कल्याणं वो युष्मभ्यं देवासुर्दिशन्तु । स्यन्दनप्रस्थितानि रथगतानि । कस्यासौ
रथः । दिवसपतेदिनपतेः । स्यन्दनप्रस्थितानीति सापेक्षत्वेऽपि समासो गमकत्वात् । क्व
प्रस्थितानि । दवीयो दिवि दूरतरगगने । भद्रदानक्रियाविशेषणं वा दवीय इति । तदा द
वीयोऽतीवतरामित्यर्थः । तान्येव विशेष्यन्ते—धूर्ध्वस्तात्र्यग्रहाणि धुरा ध्वस्ता विक्षिप्ता
अग्र्या अग्रे भवा ग्रहा: कुजादयो यैस्तानि तथोक्तानि । किंच । ध्वजपटपवनेन ध्वजां-
शुकमरुता आन्दोलितो विकम्पित इन्दुश्चन्द्रमा येषु तानि । तथा दूरमतीवतया राहौ
तमसि पुनर्भूयोऽपि दत्ता चक्रेण व्यथा भयं यैस्तानि । ग्रासाभिलाषादनुसरति । अनु-
सरंश्चक्रमपेक्षमाणस्ततो बिभेति । श्रान्ताश्वश्वासहेलाधुतविबुधधुनीति धुतानि कम्पि
तानि विबुधधुनीनिर्झराम्भांसि सुरनदीप्रस्रवणजलानि येषु तान्येवंभूतानि ॥
 

 

 
१. अयं श्लोकः पुस्तकान्तर एकोनसप्ततितमो वर्तते. २. 'कृत्स्नां' इति पाठः.
३. 'दूरात्' इति पाठ:.