This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
ध्वान्तौघध्वंसदीक्षाविधिपेप[^१]टु वहता प्रॉ[^२]प्राक्सहस्रं कराणा-

मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।

स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं
 

स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भावतः स्यन्दनोऽस्तु ॥६३ ॥

 
भास्वतो भानो: स्यन्दनो रथो वो युष्माकं वृजिनविजियते पापावजयायास्तु भूयात् ।

किंभूतोऽसौ । अर्यम्णा सूर्येण गरिम्णो गौरवस्य पदमुपानीयत नीतः। अध्यासनेनाध्य-

र्हणेन (उपवेशनेन) कृत्वा । अतुलमसदृशमपरिमाणं वा । प्राक् पूर्वम् । किं कुर्वता ।

कराणां किरणानां भासां सहस्रं दशशतीं वहता धारयता । कीदृशम् । ध्वान्तौघध्वंस-

दीक्षाविधिपटु । ध्वान्तं तिमिरं तस्यौघः संघातस्तस्य ध्वंसो विनाशः स एव दीक्षा

तस्या विधिस्तत्र पटु कल्पम् । किं कुर्वन् । व्रजन्गच्छन् । स्कन्धात्स्कन्धम् । केषाम् ।

मरुतां वायूनाम् । वायुस्कन्धा हि रविरथाधीनाः किलाधाराः । ते च बहवः । तान्त्र-

मेणोल्लङ्घमानो भगवान्मेरुं प्रदक्षिणीकरोतीत्यागमविदः । एतदेवोत्प्रेक्षते –- श्रान्तानां

नितान्तमत्यर्थेथं भरं भारं सोढुमक्षमाणामधिकं धर्तुमसमर्थानामिव । इवोत्प्रेक्षायाम् । भा-

रासहनेऽक्षमत्वे च गौरवपदनयनं हेतुः । यथैको भारस्यातिगुरुतयैकेन नेतुं न शक्यते स

बहुभिः पर्यायेण नीयमानः स्कन्धात्स्कन्धं व्रजति तद्वदयमपि । एष लोकव्यवहारोऽत्र

दर्शयितुं साभिप्रायेण विवक्षितः ॥
 

 
योक्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशकान्दधानो

द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।

सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-

क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥

 
असौ स्यन्दनो रथ एनः पापं वो युष्माकं हरत्वपनयतु । किमीयः । सावित्रो भाव-

वीयः । क्षेपीयः क्षिप्रतरम् । क इव । गरुत्मानिव गरुडो यथा । निरतिशयरयप्रीणिता-

नूरुः । निरतिशयोऽनतिशयनीयो रयो वेगस्तेन प्रीणितोऽनूरुररुणो येन स तथोक्तः ।

गरुत्मानप्येवम् । अरुणो हि तस्य भ्राता । स तदीयेन निरतिशयेन रंहसा प्रीयते ।

तथा हरीच्छाविधेयप्रचारः । हरयो वाजिनस्तेषामिच्छां तद्विधेयस्तत्कार्यः प्रचारो

गतिर्यस्य स तथोक्तः । अन्यत्र हरिर्विष्णुस्तदिच्छाविधेयस्तदिच्छाधीनः प्रचारो य
-
स्येति योज्यम् । किं कुर्वन् । दन्दशूकान्फणिनो दधानो बिभ्राणः । योकीक्रीभूतान्योक्र-

भावप्रपन्नान् । युगस्य .... । पुरोऽग्रतः ग्रसितुमिव । गरुत्मानपि खादितुं दन्दशू-

कान्पुरों धंरो धत्ते । किंच, द्वेधा व्यस्ता येऽम्बुवाहास्तेषामावलिविहितौ बृहन्तौ पक्षो तयो-

र्विक्षेपस्तेन शोभा यस्य स तथोक्तः । अन्यत्र द्वेधा व्यस्ता अम्बुवाहावलयो घनावल-

 
[^
.] 'गुरु' इति पाठः.
[^
.] 'द्राक्' इति पाठः,
 
-