2023-02-23 18:32:32 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
ध्वान्तौघध्वंसदीक्षाविधिपेटु वहता प्रॉक्सहस्रं कराणा-
मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।
स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं
स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भावतः स्यन्दनोऽस्तु ॥६३ ॥
भास्वतो भानो: स्यन्दनो रथो वो युष्माकं वृजिनविजियते पापावजयायास्तु भूयात् ।
किंभूतोऽसौ । अर्यम्णा सूर्येण गरिम्णो गौरवस्य पदमुपानीयत नीतः। अध्यासनेनाध्य-
र्हणेन (उपवेशनेन) कृत्वा । अतुलमसदृशमपरिमाणं वा । प्राक् पूर्वम् । किं कुर्वता ।
कराणां किरणानां भासां सहस्रं दशशतीं वहता धारयता । कीदृशम् । ध्वान्तौघध्वंस-
दीक्षाविधिपटु । ध्वान्तं तिमिरं तस्यौघः संघातस्तस्य ध्वंसो विनाशः स एव दीक्षा
तस्या विधिस्तत्र पटु कल्पम् । किं कुर्वन् । व्रजन्गच्छन् । स्कन्धात्स्कन्धम् । केषाम् ।
मरुतां वायूनाम् । वायुस्कन्धा हि रविरथाधीनाः किलाधाराः । ते च बहवः । तान्त्र-
मेणोल्लङ्घमानो भगवान्मेरुं प्रदक्षिणीकरोतीत्यागमविदः । एतदेवोत्प्रेक्षते – श्रान्तानां
नितान्तमत्यर्थे भरं भारं सोढुमक्षमाणामधिकं धर्तुमसमर्थानामिव । इवोत्प्रेक्षायाम् । भा-
रासहनेऽक्षमत्वे च गौरवपदनयनं हेतुः । यथैको भारस्यातिगुरुतयैकेन नेतुं न शक्यते स
बहुभिः पर्यायेण नीयमानः स्कन्धात्स्कन्धं व्रजति तद्वदयमपि । एष लोकव्यवहारोऽत्र
दर्शयितुं साभिप्रायेण विवक्षितः ॥
योक्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशकान्दधानो
द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।
सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-
क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥
असौ स्यन्दनो रथ एनः पापं वो युष्माकं हरत्वपनयतु । किमीयः । सावित्रो भाव-
वीयः । क्षेपीयः क्षिप्रतरम् । क इव । गरुत्मानिव गरुडो यथा । निरतिशयरयप्रीणिता-
नूरुः । निरतिशयोऽनतिशयनीयो रयो वेगस्तेन प्रीणितोऽनूरुररुणो येन स तथोक्तः ।
गरुत्मानप्येवम् । अरुणो हि तस्य भ्राता । स तदीयेन निरतिशयेन रंहसा प्रीयते ।
तथा हरीच्छाविधेयप्रचारः । हरयो वाजिनस्तेषामिच्छां तद्विधेयस्तत्कार्यः प्रचारो
गतिर्यस्य स तथोक्तः । अन्यत्र हरिविष्णुस्तदिच्छाविधेयस्तदिच्छाधीनः प्रचारो य
स्येति योज्यम् । किं कुर्वन् । दन्दशूकान्फणिनो दधानो बिभ्राणः । योकीभूतान्यो-
भावप्रपन्नान् । युगस्य .... । पुरोऽग्रतः ग्रसितुमिव । गरुत्मानपि खादितुं दन्दशू-
कान्पुरों धंत्ते । किंच, द्वेधा व्यस्ता येऽम्बुवाहास्तेषामावलिविहितौ बृहन्तौ पक्षो तयो-
र्विक्षेपस्तेन शोभा यस्य स तथोक्तः । अन्यत्र द्वेधा व्यस्ता अम्बुवाहावलयो घनावल-
१. 'गुरु' इति पाठः. २. 'द्राक्' इति पाठः,
-