This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="60">
पान्थोऽरुणो युष्माकं पथ्येतराण्याहितानि क्षपयतु । किंभूतः स क इत्याह –- योऽरुणो-

ऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणै-

स्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क

श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त

थायमरुणः ॥
 
</p>
<verse text="A" n="61">
सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः

स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।

दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः

पूष्णोऽश्वाः [^१]पूरयंस्तैस्तदवतु जवनैर्हुं[^२]कृतेनाग्रगो वः ॥ ६१ ॥
 
[^
</verse>
<footnote mark="
]">इत्यरुणवर्णनम् ।
 
</footnote>
<p text="B" n="61">
पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्णं कुर्वन् । यत्स्थान-

मश्वा न याता न लङ्घितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनैस्तैरेव पूरयन् । किं कुर्वन्तो

न याताः । सीदन्तः सन्ना भवन्तः । क्व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः ।

अन्तर्निमज्जज्जडखुरमुसलाः । अन्तर्मध्ये निमज्जन्ति प्रविशन्ति जडानि खुरमुसलानि येषां

ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्घ्यमानाः कंदराली: कनकशिखरिणो

मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकतदृ-

षदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्थं दूर्वास्थलोकाः ॥ इत्यरुणवर्ण-

नव्याख्यानम् ॥
 
</p>
<verse text="A" n="62">
पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-

वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।

उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः

प्राह्णे श्रे[^४]यो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥
 
</verse>
<p text="B" n="62">
सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि-

रोहन् । व्योमवीथीं व्योममार्गम् । प्राह्णे पूर्वाह्णे । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः ।

किंभूतैः । पीनोरःप्रेरिताभ्रैरुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुट-

प्रान्तावस्थितैः । क्व । प्रातरद्रौ मेरौ । पुनरपि किंभूतैः । आदीर्घाङ्गैरायतशरीरैः । किं

भूतोऽसौ । अपगतासङ्गनिःशब्दचक्रः । अपगतासङ्गं सङ्गरहितमत एव निःशब्दं चक्रं

यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा

हठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूर्धावनतिहठभवद्विप्रती-

पप्रणाम इति ॥
 
[^
</p>
<footnote mark="
] ">'प्रेरयंस्तान्' इति पाठ:.

[^२] 'हुंकृतैरग्रणीः' इति पाठ:

[^३] 'इति सूतवर्ण-

नम्' इति पाठ:.

[^४] 'प्रेयो' इति पाठः.</footnote>
</page>