2023-02-28 15:53:53 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
पान्थोऽरुणो युष्माकं पथ्येतराण्याहितानि क्षपयतु । किंभूतः स क इत्याह –- योऽरुणो-
ऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणै-
स्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क
श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त
थायमरुणः ॥
सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः
स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।
दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः
पूष्णोऽश्वाःर्[^१]पूरयंस्तैस्तदवतु जवने॑हु॒नैर्हुं[^२]कृतेनाग्रगो वः ॥ ६१ ॥
[^३]इत्यरुणवर्णनम् ।
पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्णणं कुर्वन् । यत्स्थान-
मश्वा न याता न लचिङ्घितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनैस्तैरेव पूरयन् । किं कुर्वन्तो
न याताः । सीदन्तः सन्ना भवन्तः । क्व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः ।
अन्तर्निमज्जज्जडखुरमुसलाः । अन्तर्मध्ये निमज्जन्ति प्रविशन्ति जडानि खुरमुसलानि येषां
ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्घघ्यमानाः कंदराली: कनकशिखरिणो
मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकतदृ-
षदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्थथं दूर्वास्थलोकाः ॥ इत्यरुणवर्ण-
नव्याख्यानम् ॥
पीनोरः प्रेरिताम्भ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-
वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।
उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः
प्राह्णे श्रे[^४]यो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥
सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि-
रोहन् । व्योमवीर्थीथीं व्योममार्गम् । प्राह्णे पूर्वाद्धेह्णे । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः ।
किंभूतैः । पीनोरःप्रेरिताम्भ्रैरुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुट-
प्रान्तावस्थितैः । क्व । प्रातरद्रौ मेरौ । पुनरपि किंभूतैः । आदीर्घाङ्गैरायतशरीरैः । किं
भूतोऽसौ । अपगतासङ्गनिःशब्दचक्रः । अपगतासङ्गं सङ्गरहितमत एव निःशब्दं चक्रं
यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा
हठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूर्धावनतिहठभवद्विप्रती-
पप्रणाम इति ॥
[^१.] 'प्रेरयंस्तान्' इति पाठ:.
[^२.] 'हुंकृतैरग्रणीः' इति पाठ:
[^३.] 'इति सूतवर्ण-
नम्' इति पाठ:.
[^४.] 'प्रेयो' इति पाठः.
ऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणै-
स्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क
श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त
थायमरुणः ॥
सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः
स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।
दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः
पूष्णोऽश्वाः
[^३]इत्यरुणवर्णनम् ।
पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्
मश्वा न याता न ल
न याताः । सीदन्तः सन्ना भवन्तः । क्व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः ।
अन्तर्निमज्जज्जडखुरमुसलाः । अन्तर्मध्ये निमज्जन्ति प्रविशन्ति जडानि खुरमुसलानि येषां
ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्
मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकतदृ-
षदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्
नव्याख्यानम् ॥
पीनोरः
वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।
उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः
सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि-
रोहन् । व्योमवी
किंभूतैः । पीनोरःप्रेरिता

[^१
[^२
[^३
नम्' इति पाठ:.
[^४