This page has not been fully proofread.

सूर्यशतकम् ।
 
३३
 
पान्थोऽरुणो युष्माकं पथ्येतराण्याहितानि क्षपयतु । किंभूतः स क इत्याह –- योऽरुणो-

ऽश्वपङ्किं संश्रित्य नित्यं त्रिलोकीमटत्यतिक्रामति । किंभूतो यः । पटुतरैस्तीक्ष्णैः किरणेणै-

स्ताप्यमानः । कीदृशीमश्वपङ्क्तिम् । समीपवर्तिनीमारामलेखामुपवनलेखामिव । यथा क

श्चित्पान्थः किरणैस्ताप्यमानः समीपस्थितामुपवनतरुच्छायामाश्रित्य पन्थानमत्येति त
 

थायमरुणः ॥
 

 
सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः
 

स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।

दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः

पूष्णोऽश्वाः र्पूरयंस्तैस्तदवतु जवने॑हु॒कृतेनाग्रगो वः ॥ ६१ ॥

इत्यरुणवर्णनम् ।
 

 
पूष्णोऽग्रगोऽरुणो वो युष्मानवतु रक्षतु । किं कुर्वन् । पूरयन्पूर्ण कुर्वन् । यत्स्थान-

मश्वा न याता न लचितवन्तस्तत्स्थानं हुंकारेण हेतुना जवनैस्तैरेव पूरयन् । किं कुर्वन्तो

न याताः । सीदन्तः सन्ना भवन्तः । व । सैकते सिकताप्रदेशे नाकनद्याः स्वर्धुन्याः ।

अन्तर्निमज्जजडखुरमुसलाः । अन्तर्मध्ये निमजन्ति प्रविशन्ति जडानि खुरमुसलानि येषां

ते तथोक्ताः । अत एव सीदन्तः । स्कन्दन्त उल्लङ्घयमानाः कंदराली: कनकशिखरिणो

मेरोः । मेखलासु कटकेषु स्खलन्तो गतिवैक्लव्यमापद्यमानाः । किं च, मरकत-

षदि मरकतशिलायां स्थास्नवः स्थातारः । दूरमत्यर्थ दूर्वास्थलोकाः ॥ इत्यरुणवर्ण-

नव्याख्यानम् ॥
 

 
पीनोरः प्रेरिताम्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-

वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।

उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः
 

 
प्राविधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥

सवितुर्भानो रथः स्यन्दनो वो युष्मभ्यं श्रेयः पुण्यं विधत्तां कुरुताम् । अवतरन्नधि-

रोहन् । व्योमवीर्थी व्योममार्गम् । प्रा पूर्वाद्धे । उदस्त उत्क्षिप्तः । हरिभिर्वाजिभिः ।

किंभूतैः । पीनोरःप्रेरिताम्रैरुपचितवक्षोनुन्नघनैः । चरमखुरपुटाग्रस्थितैः पाश्चात्यशफपुट-

प्रान्तावस्थितैः । क्व । प्रातरद्रौ मेरौ । पुनरपि किंभूतैः । आदीर्घाङ्गैरायतशरीरैः । किं

भूतोऽसौ । अपगतासङ्गनिःशब्दचक्रः । अपगतासङ्गं सङ्गरहितमत एव निःशब्दं चक्रं

यस्य स तथोक्तः । अपि च, उत्तानो योऽनूरुस्तस्य यो मूर्धा तस्यावनतिस्तया कृत्वा

हठेन भवन् विप्रतीपो विपरीतः प्रणामो यस्य स उत्तानानूरुमूर्धावनतिहठभवद्विप्रती-

पप्रणाम इति ॥
 

 
१. 'प्रेरयंस्तान्' इति पाठ:. २. 'हुंकृतैरग्रणीः' इति पाठ: ३. 'इति सूतवर्ण-

नम्' इति पाठ:. ४. 'प्रेयो' इति पाठः.