This page has been fully proofread once and needs a second look.

३२
 
काव्यमाला ।
 
सेका वाजिनस्त्वत्पार्श्वाच्छैत्यमनुभवन्तः सुखेनैव व्रजन्तीति भावः । उत्तरस्यां दिशि

कुबेरमाभाषते -– वित्तं द्रव्यं पातीति वित्तपस्तमामन्त्र्य संभाषते -- हे वित्तप धनद, त्व-

मावेदितः कथितो मया स्वामिनः । यथायं स्वाधिकारेऽप्रमत्तः संस्त्रैलोक्यस्थितेरेको हे-

तुर्निधिद्वयस्यापि शङ्खपद्माख्यस्य पालने नियुक्तोऽतोऽसौ गौरवाद्भगवतो वेरावेद्यत एव ।

ईशान्यां शर्वं दृष्ट्वा हे शर्व, त्वां वन्दे । अष्टमूर्तित्वाद्रविरेव शर्वः । तथा चोक्तम् -–'आ-

दित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । [ उभयोरन्तरं नास्ति आदित्यस्य शिव-

स्य च ॥ ] ' इति ॥
 

 
पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं
 

तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।

योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं [^१]वृत्रशत्रो-

स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥ ९ ॥
 
रविर्य

 
रविर्यं
शास्ति शिक्षयति सोऽरुणो वो युष्मानवतु रक्षतु । यथा शास्ति तं प्रकारं

दर्शयन्नाह –- पाशानाशान्तपालादित्यादि । आशान्तमपरां दिशं पालयतीत्याशान्तपा-

लस्तस्माद्वरुणतो वरुणात् हे अरुण, पाशान्मा ग्रहीर्मा गृहाण । सर्वलकाराणामपवादः

'माङि लुङ्' । किमर्थं प्रग्रहार्थं रश्मिनिमित्तम् । सारथित्वात् । सारथिर्यद्यदुपयुज्यते

तत्सर्वमभिलषति । आदित्यस्तु तत्सर्वे निषेधयति । किं च, कृष्णस्य विष्णोश्चक्रे तृष्णा-

मभिलाषं जहिहि । कुतः । न हि रथो याति मे नैकचक्रः । हि यस्मान्मम रथो न याति ।

कथम् । एकचक्रः । इत्येतन्न । अपि तु यात्येव । प्रतिषेधतया प्रकृतार्थावगतिः । किंच,

वृत्रशत्रोरिन्द्रसकाशादुच्चैःश्रवसमश्वविशेषमष्टमं योक्तुं किमभिलषसि मा त्वमभिलषेत्यर्थः ।

किंभूतम् । युग्यम् । युगमर्हतीति युग्यस्तम् । किंभूतो रविरित्याह———त्यक्ता अन्यापेक्षवि
-
श्वोपकृतिर्जगदुपकरणं येन स त्यक्तान्यापेक्षविश्वोपकृतिः । जगदुपकरणं प्रति जनं कंच-

नाशापालादिकं सहायं नापेक्षत इत्यर्थः ।
 

 
नो मूर्छाछिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी
 

पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।

यः संश्रित्य त्रिलोकीमटति पटुतरेस्ताप्यमानो मयूखै-

रारादाराम लेखामिव [^२]हरितमणिश्यामलामश्पङ्किम् ॥ ० ॥

 
मूर्छया मोहेन च्छिन्नापनीता वाञ्छा इच्छा यस्य स तथोक्तः । स तथा नो भवति

नास्ति । इतरः पान्थस्तु तथाभूत एव भवति । किं च, श्रमविवशवपुर्नैव । श्रमेण वि-

वशमनवस्थंःथं वपुर्यस्य स तथोक्तः । तथा नैव । नाप्यास्यशोषी । आस्यशोषों मुखशोषो

विद्यते यस्य स आस्यशोषी । अस्यास्यमपि न शुष्यति । एवंविधः श्रीसूर्यस्याग्रेसरः

 
[^
.] 'त्वाष्ट्रशत्रोः' इति पाठः.
[^
.] 'हरिततृण' इति पाठ:.