This page has not been fully proofread.

३२
 
काव्यमाला ।
 
सेका वाजिनस्त्वत्पार्श्वाच्छैत्यमनुभवन्तः सुखेनैव व्रजन्तीति भावः । उत्तरस्यां दिशि
कुबेरमाभाषते – वित्तं द्रव्यं पातीति वित्तपस्तमामन्त्र्य संभाषते - हे वित्तप धनद, त्व-
मावेदितः कथितो मया स्वामिनः । यथायं स्वाधिकारेऽप्रमत्तः संस्त्रैलोक्यस्थितेरेको हे-
तुर्निधिद्वयस्यापि शङ्खपद्माख्यस्य पालने नियुक्तोऽतोऽसौ गौरवाद्भगवतो वेरावेद्यत एव ।
ईशान्यां शर्व दृष्ट्वा हे शर्व, त्वां वन्दे । अष्टमूर्तित्वाद्रविरेव शर्वः । तथा चोक्तम् –'आ-
दित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । [ उभयोरन्तरं नास्ति आदित्यस्य शिव-
स्य च ॥ ] ' इति ॥
 
पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं
 
तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।
योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो-
स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥ १९ ॥
 
रविर्य शास्ति शिक्षयति सोऽरुणो वो युष्मानवतु रक्षतु । यथा शास्ति तं प्रकारं
दर्शयन्नाह – पाशानाशान्तपालादित्यादि । आशान्तमपरां दिशं पालयतीत्याशान्तपा-
लस्तस्माद्वरुणतो वरुणात् हे अरुण, पाशान्मा ग्रहीर्मा गृहाण । सर्वलकाराणामपवादः
'माङि लुङ्' । किमर्थं प्रग्रहार्थ रश्मिनिमित्तम् । सारथित्वात् । सारथिर्यद्यदुपयुज्यते
तत्सर्वमभिलषति । आदित्यस्तु तत्सर्वे निषेधयति । किं च, कृष्णस्य विष्णोश्चक्रे तृष्णा-
मभिलाषं जहिहि । कुतः । न हि रथो याति मे नैकचक्रः । हि यस्मान्मम रथो न याति ।
कथम् । एकचक्रः । इत्येतन्न । अपि तु यात्येव । प्रतिषेधतया प्रकृतार्थावगतिः । किंच,
वृत्रशत्रोरिन्द्रसकाशादुच्चैःश्रवसमश्वविशेषमष्टमं योक्तुं किमभिलषसि मा त्वमभिलषेत्यर्थः ।
किंभूतम् । युग्यम् । युगमर्हतीति युग्यस्तम् । किंभूतो रविरित्याह———त्यक्ता अन्यापेक्षवि
श्वोपकृतिर्जगदुपकरणं येन स त्यक्तान्यापेक्षविश्वोपकृतिः । जगदुपकरणं प्रति जनं कंच-
नाशापालादिकं सहायं नापेक्षत इत्यर्थः ।
 
नो मूर्छाछिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी
 
पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।
यः संश्रित्य त्रिलोकीमटति पटुतरेस्ताप्यमानो मयूखै-
रारादाराम लेखामिव हरितमणिश्यामलामश्चपङ्किम् ॥ ३० ॥
मूर्छया मोहेन च्छिन्नापनीता वाञ्छा इच्छा यस्य स तथोक्तः । स तथा नो भवति
नास्ति । इतरः पान्थस्तु तथाभूत एव भवति । किं च, श्रमविवशवपुर्नैव । श्रमेण वि-
वशमनवस्थंःवपुर्यस्य स तथोक्तः । तथा नैव । नाप्यास्यशोषी । आस्यशोषों मुखशोषो
विद्यते यस्य स आस्यशोषी । अस्यास्यमपि न शुष्यति । एवंविधः श्रीसूर्यस्याग्रेसरः
१. 'त्वाष्ट्रशत्रोः' इति पाठः. २. 'हरिततृण' इति पाठ:.