This page has been fully proofread once and needs a second look.

सूर्यशतनीत्वाश्वान्सप्त [^१]म् ।
नीत्वाश्वान्सप्त के
क्षा इव नियमवशं वेत्रकल्पप्रतोद -

स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि

पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-

स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥

 
दिवसपतेः श्रीसूर्यस्य प्राक्प्रतीहारपालो महाप्रतीहारो वो युष्मांस्त्रायताम् । किं कु-

र्वन् । क्षितिभृदधिपतीन्मेरुप्रमुखान्दर्शयन् । किंभूतः । रथस्य प्रष्ठोऽग्रगामी । तथा वे
-
त्रकल्पो दण्डसदृशः प्रतोदो यस्य स तथोक्तः । किं कृत्वा, सप्ताश्वान्नियमवशं नीत्वा ।

सप्त कक्षा इव सप्तकक्षाद्वाराणीव । यथा प्रतीहारोऽपि सप्तद्वाराणि नियमवशं नयति

एवमश्वान्नीत्वा । सप्तशब्दः काकाक्षिगोलकन्यायेनाश्वैः कक्षाभिश्च संबध्यते । क्व सति ।

ध्वान्तस्य राशावन्धतमसस्य समूहे तूर्णं क्षिप्रमुत्सारिते दूरभाजि सति । कस्मिन्निव ।

इतरजन इव । यथेतरजनो दूरमुत्सार्यते गले धृत्वा क्षिप्यते । कीदृशस्य । त्रैलोक्येति ।

त्रिलोकीसंबन्धि यदास्थानदानं तत्रोद्यतो यो दिवसपतिस्तस्य । मुख्यः प्रतीहारराज

इत्यर्थः ।
 

 
वज्रिञ्जातं विकासीक्षणकमलवनं भासि [^२]नाभासि व
 
ह्ने
तातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ ।

सप्तीन्सिञ्च प्रचेतः पवन भज जवं वित्तपावेदितस्त्वं
 

वन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ १८ ॥

 
पूष्ण आदित्यस्याग्रणीररुणो वो युष्मान्पातु । किं कुर्वन् । प्रतिदिशमधिपान्दिक्पा-

लानिति जल्पन् । इतीति किम् । हे वज्रिन्, ईक्षणान्येव कमलानि तेषां वनं तद्भवतो

विकासि जातमुन्निद्रतां गतम् । हे वह्ने, त्वं न भासि न दीप्यसे । कथं यथा भवति आभा-

सि यथा भवति । आ समन्ताद्भासनमाभासः स विद्यते यस्येत्याभासि यथा भवति ।

बहे, स्वामिन्युदिते सति त्वमतिशयेन दीप्तिमद्यथा भवति तथा न दीप्यस इत्यर्थः । द-

क्षिणतो यममभिनन्तुमागतमादिशति –- हे यम, इमं महिषमश्वपार्श्वान्नयापसारय । किं

कृत्वा । तातं सूर्यं नत्वा । अन्योन्यस्यैतेषामत्यन्तविरोधात् । नैर्ऋत्यां दिशि राक्षसांश्च

मानयति —- हे राक्षसाः, यूयं स्वामिना वीक्षिताः स्थ दृष्टा भवथ । देवानामधमजातयोऽपि

ते दिक्पालन नियुक्तत्वाद्वीक्षिताः स्थेति संवादेन सुखिनः क्रियन्ते । भृत्यो हि स्वामिना

यथार्हेहं संमानितोऽत्यन्तभक्त्या स्वाधिकारेऽप्रमत्तो भवति । पश्चिमायां वरुणमादिशति-
·
-
हे प्रचेतः, सप्तीनश्वान्सिञ्च । जलोत्पादकत्वादसाविममेवादेशमर्हति । अनेन स्वामिना

संमानितो भवति । भृत्यो हि स्वामिनः सकाशादादेशं लब्ध्वात्मानं कृतार्थं मन्यते । त-

दवसरप्राप्ये कर्मणि वायुमादिशति –- हे पवन, जवं वेगं भज सेवस्व । येन वरुणाल्लव्धा-

 
[^
.] 'कक्ष्याः' इति पाठ:.
[^
.] 'नो भासि' इति पाठः.