This page has not been fully proofread.

सूर्यशतकम् ।
नीत्वाश्वान्सप्त केक्षा इव नियमवशं वेत्रकल्पप्रतोद -
स्तूर्ण ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि
पूर्व प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-
स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥
दिवसपतेः श्रीसूर्यस्य प्राक्प्रतीहारपालो महाप्रतीहारो वो युष्मांस्त्रायताम् । किं कु-
र्वन् । क्षितिभृदधिपतीन्मेरुप्रमुखान्दर्शयन् । किंभूतः । रथस्य प्रष्ठोऽग्रगामी । तथा वे
त्रकल्पो दण्डसदृशः प्रतोदो यस्य स तथोक्तः । किं कृत्वा, सप्ताश्वान्नियमवशं नीत्वा ।
सप्त कक्षा इव सप्तकक्षाद्वाराणीव । यथा प्रतीहारोऽपि सप्तद्वाराणि नियमवशं नयति
एवमश्वान्नीत्वा । सप्तशब्दः काकाक्षिगोलकन्यायेनाश्वैः कक्षाभिश्च संबध्यते । क्व सति ।
ध्वान्तस्य राशावन्धतमसस्य समूहे तूर्ण क्षिप्रमुत्सारिते दूरभाजि सति । कस्मिन्निव ।
इतरजन इव । यथेतरजनो दूरमुत्सार्यते गले धृत्वा क्षिप्यते । कीदृशस्य । त्रैलोक्येति ।
त्रिलोकीसंबन्धि यदास्थानदानं तत्रोद्यतो यो दिवसपतिस्तस्य । मुख्यः प्रतीहारराज
इत्यर्थः ।
 
वज्रिजातं विकासीक्षणकमलवनं भासि नाभासि व
 
तातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ ।
सप्तीन्सिञ्च प्रचेतः पवन भज जवं वित्तपावेदितस्त्वं
 
वन्दे शवेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ १८ ॥
पूष्ण आदित्यस्याग्रणीररुणो वो युष्मान्पातु । किं कुर्वन् । प्रतिदिशमधिपान्दिक्पा-
लानिति जल्पन् । इतीति किम् । हे वज्रिन्, ईक्षणान्येव कमलानि तेषां वनं तद्भवतो
विकासि जातमुन्निद्रतां गतम् । हे वह्ने, त्वं न भासिन दीप्यसे । कथं यथा भवति आभा-
सि यथा भवति । आ समन्ताद्भासनमाभासः स विद्यते यस्येत्याभासि यथा भवति ।
बहे, स्वामिन्युदिते सति त्वमतिशयेन दीप्तिमद्यथा भवति तथा न दीप्यस इत्यर्थः । द-
क्षिणतो यममभिनन्तुमागतमादिशति – हे यम, इमं महिषमश्वपार्श्वान्नयापसारय । किं
कृत्वा । तातं सूर्य नत्वा । अन्योन्यस्यैतेषामत्यन्तविरोधात् । नैर्ऋत्यां दिशि राक्षसांश्च
मानयति — हे राक्षसाः, यूयं स्वामिना वीक्षिताः स्थ दृष्टा भवथ । देवानामधमजातयोऽपि
ते दिक्पालन नियुक्तत्वाद्वीक्षिताः स्थेति संवादेन सुखिनः क्रियन्ते । भृत्यो हि स्वामिना
यथार्हे संमानितोऽत्यन्तभक्त्या स्वाधिकारेऽप्रमत्तो भवति । पश्चिमायां वरुणमादिशति-
· हे प्रचेतः, सप्तीनश्वान्सिञ्च । जलोत्पादकत्वादसाविममेवादेशमर्हति । अनेन स्वामिना
संमानितो भवति । भृत्यो हि स्वामिनः सकाशादादेशं लब्ध्वात्मानं कृतार्थं मन्यते । त-
दवसरप्राप्ये कर्मणि वायुमादिशति – हे पवन, जवं वेगं भज सेवस्व । येन वरुणाल्लव्धा-
१. 'कक्ष्याः' इति पाठ:. २. 'नो भासि' इति पाठः.