2023-02-23 18:32:32 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
पावकश्च पतत्पावकस्तस्याग्रे धूम इव । यथा अरण्यां मथ्यमानायाम प्रथमं धूम उ
पलभ्यमानो वैश्वानरस्य पतनं सूचयति । दर्शपौर्णमासादिना यजमानं प्रवर्तयन् । अनु-
दिते सूर्ये तेषामप्रवृत्तिरित्यतोऽयं धूम इव भवतोति भावः । विश्वस्येवादिसर्ग त्रैलो-
क्यस्य प्रथमा सृष्टिरिव प्रधानान्महान्महतोऽहंकार इत्यादिलक्षणा पञ्चभूतात्मिका । आ-
दिग्रहणेनावान्तरप्रलयसर्गान्व्यवच्छिनत्ति । यथादिसर्गो विश्वस्याविर्भावकारणतामुपग-
च्छंलोकानां स्वस्त्रपुरुषार्थेष्वपवर्गपर्यन्तेषु प्रवर्तमानानां हेतुतामुपयाति एवमयमप्य
व्यवस्थितः सौरस्य रथस्याविर्भावविज्ञानं प्रति कारणभावमुपगच्छन्समयाध्युषितत्व-
मुपलक्ष्यते । तस्यामेव वेलायां तेषां होमः प्रवर्तते नानुदिते ॥ (नृत्योत्सवे) आदिसर्ग
इवासौ भवतीति भावः प्रणव इव परं पावनो वेदराशेरिति वेदचतुष्टयस्याग्रे व्यवस्थितः
प्रणव इवौंकार इव । परमुत्कृष्ट: । पावनः सकलकल्मषक्षयकारी । स हि वेदानामग्र
एवोच्चार्यते । स च जपस्मरणोच्चारणद्वारेण पुरुषं पुनाति । एवमनूरुरपि सौरस्य रथ-
स्याग्रे व्यवस्थितः । स्नानदानजपहोमादिप्रवृत्तिद्वारेण पुरुषं पुनात्येव । एवम स्मिन्ननुदिते
स्नानादेरसंभवात् । अतोऽसौ प्रणव इव भवतीत्यभिप्रायः । संध्यानृत्योत्सवोच्छोरि-
त्यादि । संध्यायां नृत्यं तदेवोत्सवस्तमिच्छतीति संध्यानृत्योत्सवेच्छुस्तस्य मदनरिपोः
श्रीमहादेवस्याग्रे नन्दिनान्दीनिनादः अग्रे प्रथममुपजायमानः । नृत्याभिलाषिणि
(शिवे) गणेन नन्दिना नन्दिकेश्वरेण कृतो नान्द्या मुरजविशेषेण नादः शब्दः । न-
न्दिनान्दीनिनाद इवासौ भवतीति भावः ॥
पर्याप्तं तप्तचामीकर कटकतटे श्लिष्टशीतेतरांशा-
वासीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः ।
यः सोत्कर्षी विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरो-
रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥ ५६ ॥
काद्रवेयद्विषो गरुडस्य गुरुर्ज्येष्ठो भ्रातारुणो वो युष्माकमेनांसि पापान्यह्नाय झटिति
दूरं गमयतु । स क इत्याह – योऽरुण: कुलक्ष्माभृदीशस्य कुलपर्वतेश्वरस्य मेरो: सो-
त्कर्षो सातिशयिनीं विभूषां कुरुत इव । कथम् । पर्याप्तं प्रभूतम् । यः पद्मरागाय-
माणः । क्व । तप्तचामीकरकटकतटे । तप्तं यच्चामीकरमिति तप्तग्रहणेनोज्ज्वलतां दर्श-
यति । तथा श्लिष्टः संलग्नः शीतेतरांशुरादित्यो यस्मिन्स तथाभूतस्तीस्मन् । पुनः
किंभूते । आसीदन्तो ढौकमानाः स्यन्दना श्वास्तेषामनुकृति: प्रतिबिम्बं तदेव मरकतं
यस्मिंस्तत्तथोक्तमित्येके । इतरे तु आसीदन्त ईषदवसादं गच्छन्तो ये स्यन्दनाश्वास्तै-
रनुकृतं मरकतं यस्मिन् । तप्तचामीकरकटकतटे सौवर्णपाषाणे रथस्य प्रज्वलनात्
(प्रतिफलनात्) । यथा कस्यचित्कुलक्ष्माभृदीशस्य कुलेनैव ये क्ष्माभृतो राजानस्तेषा-
मीशस्य राज्ञः सौवर्ण उपर्युपरि निबद्धमरकतपद्मरागाभरणविशेषो भूषां कुरुत
एवमस्यापि ॥
१. 'अश्वानुकृतमरकते' इति पाठः