This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
२९
 
स्ततस्त्रास्ता हरयोऽश्वास्तेषां पदानि चरणन्यासास्तेषामाकाक्रान्तौ सत्यां बद्ध आदरो य
-
स्यासौ । अथवा तुरगपदैराक्रान्तो बद्ध उद्यमो यस्य सः । देवपक्षे अविरतं निरन्तरं ह
-
रिपदस्याकाशस्याक्रमणे बद्धोद्यमः । अपरं किं कुर्वन् । योऽरुणो द्विजानामीश्वरे गरुड़े
बलालघुत्वमवरजत्वं योजयन् । समयाधिक्यात्पूर्वकालोत्पन्नत्वात् । देवपक्षे द्विजानां
ब्राह्मणानामधिपतौ चन्द्रे

बलाल्लघुत्वमवरजत्वं योजयन् । समयाधिक्यात्पूर्वकालोत्पन्नत्वात् । देवपक्षे द्विजानां
ब्राह्मणानामधिपतौ चन्द्रे बलाल्लघुत्वम
दृश्यतां योजयन् । कालस्याधिक्यात् । दिनकर कि-

रणोदयकालः प्रकृष्ट इति भावः । अरुणदिनकरयोः साम्याच्छन्ब्दश्लेषोक्तिरलंकारः ॥

 
शातः श्यामालतायाः परशुरिव तमोऽरण्यवहेह्नेरिवार्चिः
 

प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।

ऐक्यं भिन्दन्द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधं
 

वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ १४ ॥

 
धामाधिपस्य सूर्यस्य वाहानामश्वानां विनेतारुणो वो युष्माकं या काचिद्विपत्तिस्त-

नाम व्यपनयतु विनाशयतु । किंभूतः । शातस्तीक्ष्णः । उत्प्रेक्षते –- श्यामालतायाः प
-
रशुरिव । श्यामा रात्रिः सैव लता । 'श्यामा रात्रिर्लता स्मृता' । परशुरिव कुठार

इव । तच्छेदकत्वात् । अपरं किंभूतोऽरुणः । तमोरण्यवहेरह्नेरर्चिरिव । तम एवारण्यं त
-
मोरण्यं तत्र वह्निस्तमोरण्यवह्निस्तस्यार्चिरिव ज्वालेव । दावाग्निरित्यर्थ: । अपरं किं-

भूतोऽरुणः । प्राच्या पूर्वया दिशाग्रे पुरस्ताद्ग्राहा एव कुमुदानि तेषां वनं तद्ब्ग्रहीतुं प्राक्प्र-

त्युषसि उदस्त उत्क्षिप्तोऽग्रहस्तो हस्ताग्रं इव । यथा हस्ताग्रेणानायासेनैव कुमुदानि गृ-

ह्यन्ते एवमयं ग्रहान्गृह्णाति । अपरं क इव । आकाशघरित्र्योरैक्यमेकीभावं भिन्दन्नप-

नयन्सन्नवधिरिव मर्यादेव । अपरं किंभूतोऽरुण: । विश्वं जगत्तस्य प्रबोधं विधाता ।

क इव । प्रजापतिरिव । यथा विधाता विश्वं प्रसुप्तमव्यक्तैकरूपं प्रबोधयति, एवमयं सुप्तं

प्रबोधयति ॥
 

 
पौरस्त्यस्तोयदर्तोः पवन इव पै[^१]पतत्पावकस्येव धूमो
 

विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः ।

संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
 

सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥

 
सौरस्य सूर्यसंबन्धिनः स्यन्दनस्य रथस्याग्रे स विनतानन्दनोऽरुणो वो युष्माकं

सुखं वितरतु । किंभूतः । पौरस्त्यः पूर्वदिग्भवस्तोयदर्तोः प्रावृट्कालस्याग्रे पवन इव ।

यथैव प्रावृषोऽग्रे पौरस्त्यो वायुरुपलभ्यमानो वर्षा: सूचयंस्तत्कालोपस्थितेषु कृष्यादि-

कार्येषु लोकान्व्यापारयति एवमयमपि स्यन्दनस्यात्रे उपलभ्यमानः सौरं रथं सूचयं-

स्तत्कालभाविषु ग्रामनगरादिकार्येषु लोकान्व्यापारयति । अपरं किंभूतः । पतंश्चासौ

 
[^
.] 'पतन्' इति पाठः,
 
'