This page has not been fully proofread.

२८
 
काव्यमाला ।
 
विक्रमेण बलात्कारेण । पशुमिव अश्वादिर्यथा । असावपि कदाचिदेवंभूतः स्यादित्याह-

वाहको वाहयिता । अग्र्यः प्रधानम् । केषाम् । हरीणां वाजिनाम् । हरिशब्दसाम्येनाव-

जयं दर्शयति – एक एकेन हरिणा वाह्यते । अपरस्तु बहून्हरीन्वाहयति । किं च भ्रा-

म्यन्तं पर्यटन्तम् । जगति लोके । कस्मात् । पक्षपातात्पक्षविक्षेपात्पतनाद्धूननाद्वा ।

अयं तु जगति समरुचिस्तुल्यानुरागः पक्षपातरहितः । सर्वकर्मैकसाक्षी सर्वेषां कर्मणा-

·मेकः साक्षी द्रष्टा । पक्षपातादिति शब्दच्छलेनावजयं दर्शयति-पक्षपातो हि राग

उच्यते । गरुडस्तु पक्षपातवान् । इतरस्तद्रहितः ॥
 

 
दत्तार्थैरनम्रैर्वियति विनयतो वीक्षितः सिद्धसार्थैः
 

 
• सानाथ्यं सारथिवः स दशशतरुचेः सातिरेकं करोतु ।

आपीय प्रातरेव प्रततहिमपयः स्यन्दिनी रिन्दुभासो
 

 
यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ १२ ॥

दशशतरुचेर्भानोः सूतो युष्माकं सानाथ्यं सनाथतां करोतु क्रियात् । सातिरेकं

सातिशयम् । किंभूतः । यः पृष्ठेनार्कमादित्यं भजते । अग्रे काष्ठादीपनो दिगुद्द्योतनः ।

कि कृत्वा । प्रभात एव चन्द्रदीप्तो: पीत्वा । कीदृशी: । प्रततहिमपयः स्यन्दिनी । संतत-

प्रसृतमिहिकाम्बुस्र/विणोः । क इव । जडित इव शीतादिंत इव । भृशं सुष्टु । जडितो-

ऽपि पृष्ठेऽर्के निषेवते काष्ठान्यग्रे दीपयति । तथा च 'पृष्ठतोऽर्क निषेवेत जठरेण हुता-

शनम्' इत्यागमविदः । पुनरपि किंभूतः । वीक्षितो दृष्टः । कैः । सिद्धार्थैः । कीदृशैः । वि-

श्राणितार्थैः । दूरनम्रैर्भक्तिप्रवैः । वियत्याकाशे । विनयात्प्रश्रयात् ॥

मुञ्चन्रश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-

स्तोत्रप्रख्यातवीर्योऽविरॅतहरिपदाक्रान्तिबद्धाभियोगः ।

कालोत्कर्षालघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानां
 

 
सेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ १३ ॥

सोऽरुणोऽनूरुर्वो युष्मांस्त्रायतां पातु । यः पूष्णा आत्मसम इव कृतः स्वतुल्य इव वि

हितः । किंभूतेन । सेवाप्रीतेन आराधनतुष्टेन । किं कुर्वन् । रश्मीनश्वसंयमनरज्जून्मुञ्च

ञ्शिथिलयन् । क्व । दिनादौ वासरमुखे । भगवानपि दिनादौ रश्मीन्भासो विसृजति ।

दिनगमसमये दिनावसाने संहरंश्च । स्वतन्त्रः स्वैरी । तथा देवोऽपि दिनावसाने । अ-

न्यत्र तु (?) तोत्रप्रख्यातवीर्यः प्राजनकर्मणि प्रसिद्धशक्तिः । देवपक्षे स्तोत्रैर्वेदोक्तैर्मन्त्रैः

प्रसिद्धं वीर्य यस्य स तथोक्तः । पुनः कीदृशोऽरुणः । अविरतहरिपदेति । अविरता इत-

१. 'सिद्धसाध्यैः' इति पाठः. २. 'वितत' इति पाठ:. ३. 'स्वसमः' इति पाठः.

४. देवपक्षे स्वतन्त्रस्तोत्रेत्यत्र 'खर्परे शरि वा विसर्गलोपो वक्तव्यः' इति विसर्ग-

लोपो ज्ञेयः.