This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
२७
 
उड्डीय व्रजन्ति च । अपि च, अर्काश्वाः, खचितमुखरुचो रचितमुखशोभाः । केन ।

लोहितेन शोणितेन । किं कुर्वता । श्रोतता क्षरता । कैर्हेतुभिः । खलोनैः कविकाभिः ।

किंभूतैः । तालूत्तानैः । तालूषूत्तानानि तालत्तानानि तानि हि यदा भवन्ति । तदा क्षतं

कुर्वन्ति । ततोऽसृक् स्रवति । स्वभावोक्तिरियम् । शुकास्तु स्वभावाल्लोहिततुण्डा

भवन्ति ॥ इत्यश्ववर्णनव्याख्यानम् ॥
 

 
तुरगवर्णनानन्तरं सारथिस्तवनमाह-
-
 
प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी-

विक्षिप्यापूर्वपुष्पाञ्जलिमुड्डुनिकरं सूत्रधारायमाणः ।

यामेष्वङ्केष्विवाहः कृतरुचिषु चतुर्व्वेव [^१ ]जातप्रतिष्ठा-

मव्या प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥ ५० ॥

 
सूर्यसूतो रविसारथिर्वो युष्मानव्याद्रक्षतु । किं कुर्वन् । प्रस्तावयन्प्रारर्भमाणः । काम् ।

जगदटनमहानाटिकाम् । जगतामटनं भ्रमणं तदेव महानाटिका ताम् । क्व । प्रातःशै-

लाग्ररङ्गे । प्रातःशैल उदयाचलस्तस्याग्रं तदेव रङ्गो नर्तनभूमिस्तत्र । कीदृशः सः । रज-

निजवनिकापायसंलक्ष्यलक्ष्मीः । रजनी रात्रिः सैव जवनिका प्रतिसीरा तस्यां अपाय-

स्तेन संलक्ष्योपलक्ष्या लक्ष्मीः श्रीर्यस्यारुणस्य स तथोक्तः । किं कृत्वा । विक्षिप्य वि-

कीर्य । कम् । उडुनिकरं तारकासंघम् । किंभूतम् । अपूर्वपुष्पाञ्जलिम् । किंभूतः । सूत्र-

धारायमाण: सूत्रधार इवाचरन् । सूत्रधारोऽपि नाटिकां रङ्गे प्रस्तावयति । जवनि-

कापगमदृश्यलक्ष्मीर्भवति । उडुनिकरतुल्यां पुष्पाञ्जलिं विकिरति । किंभूतां ताम्। जा-

तप्रतिष्ठामुत्पन्नस्थितिम् । क्व । अह्नो यामेषु प्रहरेषु । कियत्सु । चतुर्वेद । अङ्केष्विव । ना-

टिकापि चतुरङ्का भवति । किंभूतेषु । कृतरुचिषु विहितदीप्तिषु । अन्यत्र कृतशोभेषु ॥

 
आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणां

भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।

शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि
 

स्थाम्नां धाम्नां निधिर्यः स भवदवनुदे नूतनः स्तादनूरुः ॥ ११ ॥

 
नूतनो नवोऽनूरुररुणो भवदघनुदे युष्मत्पापविनाशाय स्ताद्भवतात् । कीदृशः ।

स्थाम्नां स्थिराणां धाम्नां तेजसां निधिनिंधानम् । नेत्रश्रुतीनां सर्पाणां शत्रुं गरुत्मन्त-

मवजयत्यभिभवति । प्रायेण सामर्थ्य किमनयोर्नास्तीत्याह –- वयोज्येष्ठभावे समेऽपि

सति । एकत्र वयसा कालकृतशरीरावस्थया ज्येष्ठोऽधिकः । अन्यत्र वयसां पक्षिणां

ज्येष्ठ: प्रधानं तद्भावे समेऽपि तुल्येऽपीति शब्दच्छलमेतत् । अत्र जयमेव दर्शयति-
-
किंभूतं नेत्रश्रुतिशत्रुम् । वाह्यमानं वाहनीक्रियमाणम् । हरिणा विष्णुना । आक्रान्त्या

 
[^
]. 'यातः प्रतिष्ठां' इति पाठः,