2023-02-25 04:24:41 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
काव्यमाला ।
रकृतशोभा । कस्मिन्सति । तायमाने विस्तारं याति सति । हरितिमनि हरितगुणे । क
थम् । निर्व्याजं निरुपधि । यमुनाप्युच्छाचल (?) चञ्चलं वहन्ती विषधरदमनस्य श्रीकृ
ष्णस्याग्रजेन पूर्वजेन बलेनावकृष्टा वृन्दावनं प्रति नीता । पार्श्ववाहिन्या गङ्गाया जवं
जयति । स्यन्दनस्य पर्वतादेः क्षरणस्य प्रस्रवणस्य स्यदेन रयेण हरितत्वेन (?) प्रसृतनि-
जफेनेनाहितशोभा भवति । तापनी तपनस्येयं तापनीति कृत्वा अपरा द्वितीयेति
योज्यम् ॥
मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये
वीक्ष्य त्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।
सूतेऽसूयत्यपीषज्जडगति वहतां कं[^१]धराधैर्वलद्धि-
र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥
असमहरेविषमाश्वस्य रखेर्वाहानां वाजिनों द्वेषितं शब्दायितं सममेककालं युष्माकं
कल्मषाणि पापानि व्यस्यताव्यपनयतु । किं कुर्वताम् । वहतां गच्छताम् । कथम् । ईष-
जडगति किंचिन्मन्दगति । प्रायेण सूतो नोत्तेजयति तन्न । सूतेऽरुणेऽसूयत्यपि सारथौ
कुप्यत्यपि । कैरुपलक्षितानाम् । कंधराः । किं कुर्वद्भिः । वलद्भिः परिवर्तमानैः । किं
कृत्वा । वीक्ष्य दृष्ट्वा । कानि । मुखानि । कासाम् । किंनरीणामश्वमुखीनाम् । कीदृशीनाम् ।
व्रीडानतानां व्रीडावतीनाम् । भानुदर्शनोत्सुकाः किंनर्यः प्रतिकुहरमुखेषु तिष्ठन्ति ।
कस्मिन्नवसरे। नाकधाम्नां देवानां निकाये व्राते नुवति स्तुवाने सति । किंभूते । कृतनुतौ
विहितप्रणामे । क्व। मार्गोपान्तेऽध्वसमीपे । कस्य । सुमेरोर्देवाचलस्य ॥
धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-
स्तालूत्तानैः खलीनैः खचित मुखरुचथ्र्योतता लोहितेन ।
उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरः श्रेणिशाखाशुका वः ॥ ४९ ॥
इत्यंश्ववर्णनम् ।
अर्
हृदयप्रियः स चासौ द्रुमश्च हृद्यद्रुमः स एव हेमाद्रिस्तस्य शिखराणि तेषां शिरांसि तेषां
श्रेणिः सैव शाखा तस्याः शुका इव शुकाः । किं कुर्वन्तः । व्रजन्तो गच्छन्तः । क्व । वियति
खे । किं कृत्वेव । उड्डोयेव । कुतः । गतिवशागत्यनुरोधात् । पुनरपि कि कुर्वन्तः । धुन्वन्तः
कम्पयन्तः । काः । नीरदालीघः
स्वकीय द्युतिहरितगुणयुक्ताः । पक्षतुल्याः । शुका अपि सहजहरितवपुषः पक्षान्धूनयन्ति
[^१