This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="45">
हस्तेनाक्रान्त एकाहाक्रान्तः । कृत्स्त्रश्चासौ त्रिविदपथश्च कृत्स्नत्रिदिवपथः । एकाहा-

ऋान्तश्चासौ कृत्स्नत्रिदिवपथश्चेति समासः । तेन पृथुः श्वासो येषां त एवमुक्ताः । श्र

मेण हेतुना । पुनरपि किंभूताः । अभ्याशे समीपे आकाशगङ्गा तस्या जलं तस्मिन्सरल-

गलानि अवाङ्नताप्राणि आननानि येषां ते तथोक्ताः । समीपमन्दाकिनीसलिलऋजुकं-

धराधोगतकोटिमुखाः ॥
 
</p>
<verse text="A" n="46">
मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृृष्टदेहा द्रवन्ती

व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपंदा पद्मरागोपलेषु ।

सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूृता सुमेरो-

मूर्धन्यावृत्तिलब्ध[^१]ध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥
 
</verse>
<p text="B" n="46">
ब्रनवाहावलिः सूर्याश्वपङ्क्तिर्वो युष्मानवतु पातु । कीदृशी । क्लिष्टसूता कदर्थितसारथिः ।

क्व । मेरोर्मूर्धनि देवाचलशिरसि । तदेव दर्श्यते । द्रवन्ती गच्छन्ती । कीदृशी सती -- स्फ-

टिकतटदृषदृृष्टदेहा । स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया

सा तथोक्ता । किं कृत्वा । मत्वावगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः ।

स्वां छायामेव स्फटिकतटदृषत्क्रान्तामपरानश्वान्बुद्द्वावधार्य द्रवन्ती धावन्तीत्यर्थः । शैलीयं

वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किं च पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा म-

न्दपदविक्षेपा । किं च, व्यस्तेऽहनि विगतवासरे अस्तसंधेयमिति भ्रान्त्या । भ्रान्तिहे-

तुरक्ततादिनास्तसंध्यायामध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकत-

कटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकट-

कश्च हरितस्ततो विभ्रम: स्यात् किं मरकत उताश्वालीति । अदृश्यानवधारिता मूर्ति-

र्यस्या इत्यर्थः । कीदृशी । आवृत्तिलवब्धध्रुवगतिः । आवृत्त्यावर्तनेन लब्धा ध्रुवा अचपला

गतिर्यया सा तथोक्ता ॥
 
</p>
<verse text="A" n="47">
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा

स्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेन ।

निर्व्याजं तायमाने हरितिमनि निजे [^२]स्फीतफेनाहितश्री-

रश्रेयस्यश्वपङ्किः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥
 
</verse>
<p text="B" n="47" merge-text="true">
अश्वपकिस्तुरगावली वो युष्माकमश्रेयांसि पापानि शमयतु । किंभूता । तापनी सा-

वित्री । किं च यमुनेव कालिन्दी यथा । अश्वपङ्क्तिकालिन्द्योः साम्यमभिधोयते--

किं कुर्वती । वहन्ती गच्छन्ती । कथम् । हेलालोलं विलासचञ्चलमनायासचञ्चलं वा ।

किंभूताश्वपङ्क्तिः । अवकृष्टा संयमिता । केन । विषधरदमनस्याग्रजेन गरुत्मतो ज्येष्ठेनारु-

णेन । पुनः किंभूता । स्वर्वाहिन्या गङ्गाया जनितजवजया कृतवेगाभिभवा । स्यन्दनस्य
 
[^
</p>
<footnote mark="
] ">' द्रुतगति:' इति पाठ:.

[^२] 'स्फीतफेनस्मितश्री:' इति पाठः.</footnote>
</page>