This page has been fully proofread once and needs a second look.

हस्तेनाक्रान्त एकाहाक्रान्तः । कृत्स्त्रश्चासौंसौ त्रिविदपथश्च कृत्स्नत्रिदिवपथः । एकाहा-
ऋान्तश्चासौ कृत्स्नत्रिदिवपथश्चेति समासः । तेन पृथुः श्वासो येषां त एवमुक्ताः । श्र
मेण हेतुना । पुनरपि किंभूताः । अभ्याशे समीपे आकाशगङ्गा तस्या जलं तस्मिन्सरल-
गलानि अवाङ्ताप्राणि आननानि येषां ते तथोक्ताः । समीपमन्दाकिनीसलिलऋजुकं-
धराधोगतकोटिमुखाः ॥
 
मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृदृृष्टदेहा द्रवन्ती
व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपंदा पद्मरागोपलेषु ।
सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूसूृता सुमेरो-
मूर्धन्यावृत्तिलब्ध[^१]ध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥
 
ब्रनवाहावलिः सूर्याश्वपङ्क्तिर्वो युष्मानवतु पातु । कीदृशी । क्लिष्टसूता कदर्थितसारथिः ।
क्व । मेरोर्मूर्धनि देवाचलशिरसि । तदेव दर्श्यते । द्रवन्ती गच्छन्ती । कीदृशी सती -- स्फ-
टिकतटदृषदृृष्टदेहा । स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया
सा तथोक्ता । किं कृत्वा । मत्वावगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः ।
स्वां छायामेव स्फटिकतटदृषत्क्रान्तामपरानश्वान्बुद्द्वावधार्य द्रवन्ती धावन्तीत्यर्थः । शैलीयं
वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किं च पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा म-
न्दपदविक्षेपा । किं च, व्यस्तेऽहनि विगतवासरे अस्तसंधेयमिति भ्रान्त्या । भ्रान्तिहे-
तुरक्ततादिनास्तसंध्यायामध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकत-
कटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकट-
कश्च हरितस्ततो विभ्रम: स्यात् किं मरकत उताश्वालीति । अदृश्यानवधारिता मूर्ति-
र्यस्या इत्यर्थः । कीदृशी । आवृत्तिलव
ब्धध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥
 
ब्रनवाहावलिः सूर्यांश्वपति युष्मानवतु पातु । कीदृशी । क्लिष्टसूता कदर्थितसारथिः ।
क्व । मेरोर्मूर्धनि देवाचलशिरसि । तदेव दर्श्यते । द्रवन्ती गच्छन्ती । कीदृशी सती -- स्फ-
टिकतटदृषदृष्टदेहा । स्फटिकस्य तटास्तेषु दृषदस्तासु दृष्टो देहः प्रतिबिम्बितो यया
सा तथोक्ता । किं कृत्वा । मत्वावगम्य । पार्श्वतः पार्श्वयोः । अन्यानश्वानपरान्वाजिनः ।
स्वां छायामेव स्फटिकतटदृषत्क्रान्तामपरानश्वान्बुवावधार्य द्रवन्ती धावन्तीत्यर्थः । शैलीयं
वाजिनां यदन्यमश्वं दृष्ट्वा धावन्ति । किं च पद्मरागोपलेषु पद्मरागमणिषु मृदुपदा म-
न्दपदविक्षेपा । किं च, व्यस्तेऽहनि विगतवासरे अस्तसंधेयमिति भ्रान्त्या । भ्रान्तिहे-
तुरक्ततादिनास्तसंध्यायामध्वा किल विच्छिन्न इति मृदुपदताहेतुः । अपि च, मरकत-
कटके मरकतमेखलायां सादृश्येनादृश्या मूर्तिर्यस्याः सैवमुक्ता । सा हरिता मरकतकट-
कश्च हरितस्ततो विभ्रम: स्यात् किं मरकत उताश्वालीति । अदृश्यानवधारिता मूर्ति-
र्यस्या इत्यर्थः । कीदृशी । आवृत्तिलव्धध्रुवग
तिः । आवृत्त्यावर्तनेन लब्धा ध्रुवा अचपला
गतिर्यया सा तथोक्ता ॥
 
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा
स्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्देन ।
निर्व्याजं तायमाने हरितिमनि निजे [^२]स्फीतफेनाहितश्री-
रश्रेयस्यश्वपङ्किः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥
 
अश्वपकिस्तुरगावली वो युष्माकमश्रेयांसि पापानि शमयतु । किंभूता । तापनी सा-
वित्री । किं च यमुनेव कालिन्दी यथा । अश्वपङ्किक्तिकालिन्द्योः साम्यमभिधोयते--
किं कुर्वती । वहन्ती गच्छन्ती । कथम् । हेलालोलं विलासचञ्चलमनायासचञ्चलं वा ।
किंभूताश्वपङ्क्तिः । अवकृष्टा संयमिता । केन । विषधरदमनस्याग्रजेन गरुत्मतो ज्येष्ठेनारु-
णेन । पुनः किंभूता । स्वर्वाहिन्या गङ्गाया जनितजवजया कृतवेगाभिभवा । स्यन्दनस्य
 
[^१] ' द्रुतगति:' इति पाठ:.
[^२] 'स्फीतफेनस्मितश्री:' इति पाठः.