This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="43">
भौमासुरस्तस्य रिपुर्नारायणस्तस्योरःस्थली सैव वासवेश्म वासगृहमिति । त्रिषु भुवन-

तलेषु त्रैलोक्ये । आदधाना कुर्वती । व्यवस्थां व्यवस्थानम् । इतरा अनवस्थानेति

व्यतिरेकः ॥ इति द्युतिवर्णनव्याख्यानम् ॥
 
</p>
<verse text="A" n="44">
रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः

पातङ्गाः पङ्ग्वज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।

येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-

वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥
 
</verse>
<p text="B" n="44">
ते पातङ्गाः सावित्रा वाजिनस्तुरङ्गा जगन्ति भुवनानि रक्षन्तु पान्तु । किं कुर्वन्तः ।

उत्पतन्तः । कथम् । अक्षुण्णहेमोपलपटलम् । अक्षुण्णमचूर्णितं हेमोपलपटलं सुवर्णाश्म-

जालं यत्रोत्पतने । खुरैर्व्योम स्पृशन्त इति भावः । कुतः । लाघवाल्लघुभावात् । अलम.

त्यर्थम् । मेराविति वक्ष्यति । तत्रोत्पतन्त इत्यस्य संबन्ध: । कीदृशास्ते । [^१]पङ्ग्वज्ञयाजित-

पवनजवा: । पङ्ग्वज्ञया जितः पवनजवो वायुवेगो यैस्ते । वायुः किल चरणरहितस्तस्य

कियान्वेगो भविष्यतीत्यवज्ञा । येषां मार्गे वर्त्म आख्याति सूचयति । कः कर्ता । द्युमणि-

मणिशिलावेदिकाजातवेदाः । दिवो मणिर्द्युमणिरादित्यः । मणिरिव मणिः । अलंकार-

भूतत्वात् । तस्य मणयः सूर्यकान्तास्तेषां वेदिकाश्चतुष्कास्तासु जातवेदा आशुशुक्षणिः ।

'जातका जातवेदाः' इति पाठान्तरे जातकाशब्दो वेदिकापर्यायः । किं कुर्वन् । उद्यन्नुद्ग-

च्छन् । उद्दामदीप्तिः प्राज्यप्रकाशः । किं कुर्वतां वाहानाम् । वहतां गच्छताम् । क्व ।

मेरौ पूर्वाचले । वीतान्यचिह्नोन्नयमपि मार्गे विगतापरलिङ्ग इत्यह(?)मपि । अपिशब्द-

श्चिह्नान्तराभावेऽपि मार्गप्रख्यापनसामर्थ्ये जातवेदसो दर्शयति ॥
 
</p>
<verse text="A" n="45">
प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-

रेकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।

तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते -

रभ्याशाकाशगङ्गाजलसरल[^२]गलावाङ्मताग्रानना वः ॥ १९ ॥
 
</verse>
<p text="B" n="45" merge-text="true">
सप्तसप्तेः सप्ततुरगस्य सप्तयोऽश्वा अहितविहतये दुरितविनाशाय वो युष्माकं त्वर-

न्तामुत्सहन्ताम् । किंभूताः । तीव्रोदन्या उदग्रपिपासाः । उदन्याया हेतुं दर्शयति--

प्लुष्टा दग्धाः पृष्ठे । कैः । अंशुपातै रश्मिप्रसरैः । अतिनिकटतया प्रत्यासन्नत्वेन । कथं-

भूतैः। दत्तदाहातिरेकैर्वितीर्णतापाधिक्यैः । कीदृशास्ते । एकाहेति । एकं च तदहश्चैका -
 
[^
</p>
<footnote mark="
] ">'पङ्गोर्निजप्रेरकस्यारुणस्यावज्ञयावहेलनेन यद्वा पङ्गोः पादविकलस्य वायोरवज्ञया'

इति शास्त्रिव्याख्यानम्.

[^२] 'गलावर्जिताग्राननाः' इति पाठ:.</footnote>
</page>