2023-02-23 18:32:30 by ambuda-bot
This page has not been fully proofread.
२४
काव्यमाला ।
भौमासुरस्तस्य रिपुर्नारायणस्तस्योरःस्थली सैव वासवेश्म वासगृहमिति । त्रिषु भुवन-
तलेषु त्रैलोक्ये । आदधाना कुर्वती । व्यवस्थां व्यवस्थानम् । इतरा अनवस्थानेति
व्यतिरेकः ॥ इति द्युतिवर्णनव्याख्यानम् ॥
रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः
पातङ्गाः पङ्ग्वज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।
येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-
वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥
ते पातङ्गाः सावित्रा वाजिनस्तुरङ्गा जगन्ति भुवनानि रक्षन्तु पान्तु । किं कुर्वन्तः ।
उत्पतन्तः । कथम् । अक्षुण्णहेमोपलपटलम् । अक्षुण्णमचूर्णितं हेमोपलपटलं सुवर्णाश्म-
जालं यत्रोत्पतने । खुरैर्व्योम स्पृशन्त इति भावः । कुतः । लाघवाल्लघुभावात् । अलम.
त्यर्थम् । मेराविति वक्ष्यति । तत्रोत्पतन्त इत्यस्य संबन्ध: । कीदृशास्ते । पङ्ग्वज्ञयाजित-
पवनजवा: । पङ्ग्वज्ञया जितः पवनजवो वायुवेगो यैस्ते । वायुः किल चरणरहितस्तस्य
कियान्वेगो भविष्यतीत्यवज्ञा । येषां मार्ग वर्त्म आख्याति सूचयति । कः कर्ता । द्युमणि-
मणिशिलावेदिकाजातवेदाः । दिवो मणिर्बुमणिरादित्यः । मणिरिव मणिः । अलंकार-
भूतत्वात् । तस्य मणयः सूर्यकान्तास्तेषां वेदिकाश्चतुष्कास्तासु जातवेदा आशुशुक्षणिः ।
'जोतका जातवेदाः' इति पाठान्तरे जातकाशब्दो वेदिकापर्यायः । किं कुर्वन् । उद्यन्नुद्ग-
च्छन् । उद्दामदीप्तिः प्राज्यप्रकाशः । किं कुर्वतां वाहानाम् । वहतां गच्छताम् । क्व ।
मेरौ पूर्वाचले । वीतान्यचिह्नोन्नयमपि मार्ग विगतापरलिङ्ग इत्य (?) मपि । अपिशब्द-
श्चिह्नान्तराभावेऽपि मार्गप्रख्यापनसामर्थ्य जातवेदसो दर्शयति ॥
प्लष्टाः ष्टष्ठेऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-
रेकाहाक्रान्तकृत्स्नत्रिदिवपथष्टथुश्वासशोषाः श्रमेण ।
तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते -
रभ्याशा काशगङ्गाजलसरलंगलावाङ्गताग्रानना वः ॥ १९ ॥
सप्तसप्तेः सप्ततुरगस्य सप्तयोऽश्वा अहितविहतये दुरितविनाशाय वो युष्माकं त्वर-
न्तामुत्सहन्ताम् । किंभूताः । तीव्रोदन्या उदग्रपिपासाः । उदन्याया हेतुं दर्शयति-
प्लुष्टा दग्धाः पृष्ठे । कैः । अंशुपातै रश्मिप्रसरैः । अतिनिकटतया प्रत्यासन्नत्वेन । कथं-
भूतैः। दत्तदाहातिरेकैर्वितीर्णतापाधिक्यैः । कीदृशास्ते । एकाहेति । एकं च तदहश्चैका -
१. 'पङ्गोर्निजप्रेरकस्यारुणस्यावज्ञयावहेलनेन यद्वा पङ्गोः पादविकलस्य वायोरवज्ञया'
इति शास्त्रिव्याख्यानम्. २. 'गलावर्जिताग्राननाः' इति पाठ:.