2023-02-26 05:02:07 by Vidyadhar Bhat
This page has not been fully proofread.
सिन्दूररेणुः । व्योम्नो गगनस्य सीनि मर्यादायामलंकारायोज्ज्वलरूपकर्तृभूतत्वात्सुरशि-
खरिभुवो मेरुसंभवस्य हेम्नः कनकस्य प्रकाशः ॥
अस्ताद्वीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीते
याति व्यक्ति पुरस्तादरुणकिसलये प्रत्युष:पारिजाते ।
उद्यन्त्यारक्तपीताम्बरवि[^१]शदतरोद्दीक्षिता ती[^२]क्ष्णभानो-
र्लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपु[^३]टापाश्रया श्रेयसे वः ॥ ४२ ॥
तीक्ष्णभानोर्लक्ष्मीः श्रीः श्रेयसे पुष्टयेऽभ्युदयायास्तु भवतु । केव । लक्ष्मीरिव पद्मेव ।
स्फुटकमलपुटापाश्रया विकसिताम्भोरुहपुटाधिवासा । किं कुर्वती । उद्यन्ती उद्ग-
च्छन्ती । कस्याम् । पुरस्तात्पूर्वस्यां दिशि । कस्मिन्नवसरे । अस्ताद्रीशोत्तमाङ्गे अस्ता-
द्रिरेवेशो महादेवस्तस्योत्तमाङ्गे अस्ताचलेशशिरसि श्रितशशिन्यधिरूढचन्द्रमसि । इतरे-
ऽपीशोत्तमाङ्गे परमेश्वरमूर्धनि इन्दुयुजि । तमःकालकूटे निपीते ग्रस्ते कालकूट इव
तमस्तत्र निपीते ग्रस्ते । अन्यत्र तम इव कालकूटो मोहात्मकत्वात् । तत्र शंभुना पीते
सति । अस्ताद्रिरिवेशः । किं च, याति गच्छति सति । व्यक्ति प्रकटताम् । प्रत्युष:-
पारिजाते । किंविशिष्टे । अरुणकिसलयेऽनुरुप्रवाले । अन्यत्र पारिजाततरावरुणपल्लव इति
योज्यम् । किंभूता । आरक्तपीताम्बर विशदतरोद्वीक्षिता ईषद्रक्तपीतभावभाजि संध्यया
नभसि स्फुटतरं दृष्टा । इतरापि आरक्तोऽनुरक्तः पीताम्बरो विष्णुस्तेन व्यक्तं
विलोकिता ॥
नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या
यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।
तेजोरूपापरैव त्रिषु[^४] भुवनतलेष्वादधाना व्यवस्थां
सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलामोद्गता वः ॥४३॥
इति [^५]द्युतिवर्णनम् ।
सा श्रीर्लक्ष्मीः श्रेयांसि वो युष्मभ्यं दिश्याद्देयात् । अशिशिरमहस उष्णरश्मेर्मण्ड-
लाग्रोद्गता मण्डलप्रान्तसमुत्थिता । कीदृशी । तेजोरूपा महःस्वभावा । अपरैवान्यैव ।
प्रसिद्धश्रोविलक्षणेत्यर्थः । तदेव वैलक्षण्यं दर्शयति- यस्या जन्मभूमिर्नोद न्वान्समुद्रो नो-
त्पत्तिस्थानम् । कौस्तुभाद्या न बान्धवा यस्याः । तदुदरभुव उदन्वदुदरजन्मनः ।
यस्याः पद्मं न पाणौ कमलं हस्ते न । न च यस्या नरकरिपूरःस्थली वासवेश्म । नरको
[^१]. 'रुचिरतरोद्वीक्षिता' इति पाठ:.
[^२]. 'तीव्रभासः' इति पाठ:.
[^३]. 'पुटोपाश्रया' इति पाठः
[^४]. 'त्रिभुवनभवने' इति पाठः.
[^५]. 'तेजोवर्णनम्' इति पाठ:.