This page has been fully proofread once and needs a second look.

वाचां वाचस्पतेरप्यचलमिदुचिताचार्यकाणां प्रपञ्चै-
र्वैरञ्चानां तथोच्चारित[^१]चतुरऋचां चाननानां चतुर्णाम् ।
उच्ये[^२]तार्चासु वाच्यच्युतिशुचि चरितं यस्य नोच्चैर्विविच्य
प्राच्यं वर्चश्र्वकासच्चि[^३]रमुपचिनुतात्तस्य चण्डार्चिषो वः ॥ ४० ॥
 
चण्डाचिषस्तिग्मभासो वर्चस्तेजो वो [^४]युष्माकमुपचिनुतादुपचयं करोतु । चिरं चि-
रकालम् । चकासद्दीप्यमानम् । प्राच्यं प्राचीभवम् । यस्यैवंविधं चरितमनुष्ठानमर्चासु
प्रतिमासु स्तुतिषु उच्चैरत्यर्थे विविच्य विभिद्य नोच्येत नाभिधातुं शक्येत । अपर्यन्तता-
मनेन दर्शयति । कीदृशं तत् । वाच्यच्युतिशुचि वाच्यमवद्यं तस्य च्युतिस्तद्रहितता
तया शुचि विशुद्धम् । कैर्नोच्येत । प्रपञ्चविस्तारैः । कासाम् । वाचां गिराम् । कस्य वा-
चस्पतेरपि । किं पुनरस्मादृशाम् । कीदृशां वाचाम् । अचल भिदिन्द्रस्तस्योचितं योग्य-
माचार्यकमाचार्यत्वं यासां तास्तथोक्तास्तासाम् । किं च, वैरञ्चानां विरञ्चसंबन्धिनां चतु-
र्णामाननानां वाचां प्रपञ्चैरिति योज्यम् । कीदृशाम् । उच्चारितचतुरऋचाम् । उच्चारिता-
चतुरा अघविघातपटव ऋचो यैस्तानि तथोक्तानि तेषामिति ॥
 
मूर्ध्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रे
दिङ्म।तङ्गोत्तमाङ्गेष्वभिनवनिहितः[^५] सान्द्रसिन्दूररेणुः ।
सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥
 
खरांशोस्तीक्ष्णतेजसः प्रकाश: शोभैकदेश: शोभैकास्पदं वो युष्मभ्यं शर्म सुखं दि-
शतु यच्छतु । यो जायते धातुराग इव परार्थे शोणिम्ना हेतुना । प्रत्येकं संबन्धनीयम् ।
उषसि प्रातः । मूर्ध्नि शिरसि । कस्य । अद्रेः । युज्यमानशब्दो वतिमन्तरेणापि वत्यर्थे ग-
मयति । यथा सिंह: सिंह इत्याह । सिंहवदिति गम्यते । एवं सर्वत्र द्रष्टव्यम् । किं
च, किसलयः पल्लववत्तरुषु शाखिषु । किसलय इति पुंलिङ्गनिर्देश: । न पुनर्लिङ्गमशिष्यं
लोकाश्रयत्वादिति । यथा पल्लवशब्दस्य पुंलिङ्गस्यापि लोकाश्रयं नपुंसकत्वं दृश्यते
यथा (तथा) किसलयस्य नपुंसकस्यापि पुंस्त्वमिति नोच्यते । शोमैकदेश: सामाना-
घिकरण्यात्पुंलिङ्गता । आविष्टलिङ्गत्वात् । अन्यथा आवथनमियमुष्ट्रिका (3) कुलहेतु-
र्धनमिति स्त्रीत्वनपुंसकत्वसामानाधिकरण्येनावथनहेत्वोः स्त्रीनपुंसकता स्यात् । यैस्तु
किसलयमिति नपुंसकमेवाभिधीयते तेषां नेदं नोद्यम् । समुद्रे वारिधौ विद्रुमौघः । दि-
ङ्मातङ्गोत्तमाङ्गेषु दिग्वारणशिरः स्वभिनवनिहितः प्रत्यग्रस्थापित: सान्द्रसिन्दूररेणुर्बहुल-
 
[^१] 'रुचिर' इति पाठः.
 
[^२] 'अर्चास्ववाच्य' इति पाठ:.
 
[^३] 'श्रियं' इति पाठः
 
[^४] 'युष्मानुपचिनुताद्वधर्यंत्वित्यर्थः' इति शास्त्रिव्याख्यानम्.
 
[^५] 'विहितः' इति पाठः.