This page has been fully proofread once and needs a second look.

सानौ सा नौदये नारुणितदल[^१]पुनर्यौवनानां वनाना-
मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।
भा वोऽभावोपशान्तितिं दिशतु दिनपतेर्भासमाना समाना
राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥
 
सा दिनपतेरर्कस्य भा दीप्तिर्वो युष्मभ्यमभावोपशान्तिमभाग्योपशमं दिशतु य-
च्छतु । किं कुर्वती । भासमाना द्योतमाना । यस्याः समसमयमेककालं राजीवरेणोः प-
द्मपरागस्य राजी पङ्क्तिरुदेत्युद्गच्छति । वयस्येव सखीव या [^२]समाना तुल्या । या वनानां
काननानामालीं पङ्क्ति न न [^३]आलीढपूर्वा, अपि त्वालीढपूर्वेव । द्वौ नञौ प्रकृतार्थं गम-
यतः । कीदृशानां वनानाम् । अरुणितदलपुनर्यौवनानाम् । अरुणितान्यरुणीकृतानि तानि
दलानि च तैः पुनर्यौवनं येषां तानि तथोक्तानि । सानौ भूधरभूमौ । कीदृशि । औदये
उदयस्यायमौदयस्तत्र । कीदृशी सा । परिहृतकुहरोपान्तनिम्ना । कुहराणामुपान्तानि
कुहरोपान्तानि तानि च निम्नानि च परिहृतानि कुहरोपान्तनिम्नानि रन्ध्रप्रान्तागाधानि
यया सा परिहृतकुहरोपान्तनिम्ना । तनिम्ना तानवेन हेतुना ॥
 
उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै
पुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विघातम् ।
पूर्वाद्रेरेव पूर्वं दिवमनु च [^४]पुनः पावनी दिङ्मुखाना-
मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥
 
विभा दीप्तिः इनस्येयमैनी सावित्री एनांसि पापानि वो युष्माकं नुदतु विघटयतु ।
नुतिपदैकास्पदं स्तुतिपदैकप्रतिष्ठा । प्राक्तनी प्राभातिकी । या पयसां जलानां श्रिये
लक्ष्म्यै प्रभवति विभुर्भवति नोष्णतायै औष्ण्याय । कीदृशानाम् । उज्जृम्भाम्भोरुहाणा-
मुज्जृम्भानि विकसितान्यम्भोरुहाणि येषु पयःसु तानि तेषां विकचकुशेशयानाम् । किं च,
दृशामालोकमात्रं पुष्णाति न तु दृश्यमानोपलभ्यमाना विघातं व्यथां दिशति यच्छति ।
या पूर्वं प्रथममुदयाद्रेरेवोदयाचलस्यैव पावनी पवित्रयित्री । तदनु द्यां दिवं लक्षीकृत्य
पावनी भवति । पुनरपि दिङ्मुखानामाशास्यानाम् । एतदुक्तं भवति –- पुनरपि (पूर्वं)
उदयाचले तदनु दिवि तदनन्तरमाशामुखेषु भवति ॥
 
[^१] 'लसद्यौवनानां' इति पाठ:.
[^२] 'असमाना अनुपमा' इति यज्ञेश्वरशास्त्रिया-
ख्यानम्.
[^३] 'वनानां वृक्षसमूहानामाली पङ्क्तितिं पूर्वमालीढा पूर्वमास्वादयितुमारब्धवती-
त्यालीढपूर्वी सा तथाविधा न भवतीति न । किं त्वितरवनराज्या आस्वादनतः पूर्वमुद-
याद्रिस्थवनराजीमास्वादितुमारब्धवतीत्यर्थः । आदिकर्मणि क्तः । कर्तरि चेति कर्तरि
निष्ठा । अत एव कर्मणोऽनुक्तत्वादालीमिति द्वितीयान्तम्' इति शास्त्रिव्याख्यानम्.
[^४] 'ततः' इति पाठः.