This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
सानौ सा नौदये नारुणितदल [^१]पुनर्यौवनानां वनाना-

मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।

भा वोऽभावोपशान्ति दिशतु दिनपतेर्भासमाना समाना
 

राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥

 
सा दिनपतेरर्कस्य भा दीप्तिर्वो युष्मभ्यमभावोपशान्तिमभाग्योपशमं दिशतु य-

च्छतु । किं कुर्वती । भासमाना द्योतमाना । यस्याः समसमयमेककालं राजीवरेणोः प-

झपरागस्य राजी पतिरुत्युद्गच्छति । वयस्येव सखीव या [^२]समाना तुल्या । या वनानां

काननानामालीं पति न न [^३]आलीढपूर्वा, अपि त्वालीढपूर्वेव । द्वौ नञौ प्रकृतार्थ गम-

यतः । कीदृशानां वनानाम् । अरुणितदलपुनर्यौवनानाम् । अरुणितान्यरुणीकृतानि तानि

दलानि च तैः पुनर्यौवनं येषां तानि तथोक्तानि । सानौ भूधरभूमौ । कीदृशि । औदये

उदयस्यायमौदयस्तत्र । कीदृशी सा । परिहृतकुहरोपान्तनिम्ना । कुहराणामुपान्तानि

कुहरोपान्तानि तानि च निम्नानि च परिहृतानि कुहरोपान्तनिम्नानि रन्ध्रप्रान्तागाधानि

यया सा परिहृतकुहरोपान्तनिम्ना । तनिम्ना तानवेन हेतुना ॥
 
२१
 

 
उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै

पुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विघातम् ।

पूर्वाद्रेरेव पूर्व दिवमनु च [^४]पुनः पावनी दिङ्मुखाना-

मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥

 
विभा दीप्तिः इनस्येयमैनी सावित्री एनांसि पापानि वो युष्माकं नुदतु विघटयतु ।

नुतिपदैकास्पदं स्तुतिपदैकप्रतिष्ठा । प्राक्तनी प्राभातिकी । या पयसां जलानां श्रिये

लक्ष्म्यै प्रभवति विभुर्भवति नोष्णतायै औष्ण्याय । कीदृशानाम् । उज्जृम्भाम्भोरुहाणा-

मुज्जृम्भानि विकसितान्यम्भोरुहाणि येषु पयःसु तानि तेषां विकचकुशेशयानाम् । किं च,

दृशामालोकमात्रं पुष्णाति न तु दृश्यमानोपलभ्यमाना विघातं व्यथां दिशति यच्छति ।

या पूर्व प्रथममुदयाद्रेरेवोदयाचलस्यैव पावनी पवित्रयित्री । तदनु द्यां दिवं लक्षीकृत्य

पावनी भवति । पुनरपि दिङ्मुखानामाशास्यानाम् । एतदुक्तं भवति –- पुनरपि (पूर्व)

उदयाचले तदनु दिवि तदनन्तरमाशामुखेषु भवति ॥
 

 
[^
.] 'लसद्यौवनानां' इति पाठ:.
 
[^
.] 'असमाना अनुपमा' इति यज्ञेश्वरशास्त्रिया-

ख्यानम्.
 
[^
.] 'वनानां वृक्षसमूहानामाली पङ्क्ति पूर्वमालीढा पूर्वमास्वादयितुमारब्धवती-

त्यालीढपूर्वी सा तथाविधा न भवतीति न । किं वितरवनराज्या आस्वादनतः पूर्वमुद-

याद्रिस्थवनराजीमास्वादितुमारब्धवतीत्यर्थः । आदिकर्मणि क्तः । कर्तरि चेति कर्तरि

निष्ठा । अत एव कर्मणोऽनुक्तत्वादालीमिति द्वितीयान्तम्' इति शास्त्रिव्याख्यानम्.
 
[^
.
] 'ततः' इति पाठः.