This page has been fully proofread once and needs a second look.

'गन्धर्वैर्गद्यपद्यव्यतिकरितवचो हृद्यमातोद्यवाद्यै-
राधैद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेद[^१]वेद्यैर्विभिद्य ।
आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य-
न्नुद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥
 
दिवसकृत आदित्यस्योद्द्योतोऽवभासो वो युष्माकमवद्यानि पापानि यतु खण्डयतु ।
असावयम् । किंविशिष्टः । योतितद्यौः प्रकाशितान्तरिक्षः । पुनः किंभूतः । अभिनुतः ।
कैः। गन्धर्वैर्देवविशेषैः । कथम् । गद्यपद्यव्यतिकरितवचोहृद्यम् । अपादपदसंतानं गद्यम् ।
नियतपादपरिमाणं पद्यम् । गद्यं च पद्यं च गद्यपद्ये ताभ्यां व्यतिकरितं मिश्रितं तच्च
तद्वचश्च तेन हृद्यम् । मनोहरमिति यावत् । क्रियाविशेषणमेतत् । आतोद्यवाद्यैर्मनोहर-
मिति संबध्यते । आतोद्यानि च तानि वाद्यानि च तैरिति । आतोद्यवाद्यं चतुर्विधम् --
ततं विततं (आनद्धम् ) घनं सुषिरमिति । ततं वीणादिकम् । विततं (घनं) कांस्य-
तालादिकम् । घनं (आन) मुरजादिकम् । सुषिरं वंशादिकम् । गन्धर्वैरेव किम् ।
न । मुनिभिश्च नारदाद्यैर्नारदप्रमुखैः । आद्यैरादिभूतैः । वेदेषु वेद्या यथा तैः । विभिद्य
विभागीकृत्य । यमासाद्य जगद्यौवनमापद्यते प्राप्यते । पुनरपि भूयोऽपि । सद्यस्तत्क्ष-
णम् । उद्यन्नुद्गच्छन् । यौवनमिति मनोज्ञत्वं लक्षयति । यथा यौवने सर्वोऽपि भावो म-
नोहरो भवति । तथा यमप्यासाद्य मनोहरो भवतीति यौवनमित्युक्तम् ॥
 
[^२]आवानैश्चन्द्रकान्तै श्च्युततिमिरतया तानवात्तारकाणा-
मेणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।
आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो-
राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥
 
अहिमांशोश्चण्डार्चिष आभा कान्तिर्वो युष्मानवतु । कीदृशी । प्राभातिकी औषसी ।
किं क्रियमाणा । उत्प्रेक्ष्यमाणानुमीयमाना । न तु नैव नितरां स्पष्टमाविर्भवन्ती प्रकटी-
भवन्ती । तावदिति ततोऽनन्तरमाविर्भवन्तीति संबध्यते । कीदृशस्य । क्षणं क्षणमात्रमु-
दयतटीव्यवहितस्य । कैरनुमीयमाना । चन्द्रकान्तैर्मणिभिः । आवानैः शुष्यद्भिः । ते
हिमकरस्पृष्टास्तोयं स्यन्दन्ते चन्द्रालोकाभावाच्छुष्यन्ति । अपि च तारकाणामुडूनां
तानवात्तनुत्वात् । कुतस्तानवम् । च्युततिमिरतया गलितध्वान्ततया । ओषधीनां लयेन
विलीनतया । कीदृशाम् । उपहृतमहसां नष्टतेजसाम् । कुत उपहृतमहस इत्याह--ए-
णाङ्कालोकलोपाच्चन्द्रोद्द्योतपरिमोषात । ओषधयोऽपि चन्द्रमसि विलुप्तभासि विच्छाया
भवन्ति । आरादित्यवाग्भाग इति योज्यम् ॥
 
[^१] 'वीतवेद्यैर्विविद्य' इति पाठ:.
[^२] 'आवान्तैः' इति पाठ: ईषत्सलिलबिन्दुस्रा-
विभिरिति तदर्थः.