2023-02-26 04:52:28 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या
यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।
अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-
दुद्यन्बालप्रवालप्रतिमरुचिरहः पादपप्राक्प्ररोहः ॥ ३४ ॥
अर्कालोको भास्वत्प्रतापो मुदं हर्षे वो युष्माकं क्रियात् । कीदृशः । अहःपादपप्राक्प्र-
रोहः । अहःपादपो दिवसतरुस्तस्य प्राक्प्ररोहः प्रथमाङ्कुरः । किं कुर्वन् । उद्यन्नुद्गच्छन् ।
उदयशिरश्चक्रवालालवालात् । उदेत्यस्मिन्नित्युदय उदयाचलस्तस्य शिरांसि शृङ्गाणि
तेषां चक्रवालं मण्डलं तदेवालवालं जलाधारस्थानं तस्मात् । किंभूतात् । सिक्तमूलात् ।
कथम् । संसक्तमनवरतम् । कया । यामिन्या रात्र्या । किंभूतया । अभिनवेति । उद्यानमिव
भुवनं भवनोद्यानं तस्मिन्कौतूहलं विद्यते यस्याः सा तद्वती तया । कयेव । कन्ययेव
कुमार्येव । कुमारीणां किलैष धर्म इति । केन । अमृतेन सुधया । तुषारेणेति परमार्थः ।
किंभूतेन । अमृतकरकलशावर्जितेन । अमृतकर ओषधीशः स एव कलशस्तेनावर्जितं
क्षिप्तं तेन सिक्तमूलात् । अन्यत्रामृतेन जलेन करकलशावर्जितेन । पुनरपि कीदृशः ।
बालप्रवालप्रतिमरुचिर्नवकिसलयसमानकान्तिः । प्ररोहोऽपि नवविद्रुमसमो भवति ॥
भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
त्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।
नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-
दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥
अर्कावभासः सूर्यालोको भवदघप्लुष्टये युष्मत्पापभस्मीकरणाय स्ताद्भवतु । क इव ।
अपूर्वोऽन्यः पूर्वोपि प्राक्तनोऽप्यौर्वोऽग्निरिव वडवानल इव । किं कुर्वन् । ध्वान्तराशिं ति-
मिरपुञ्जं पिबन्ग्रसन् । कमिव । उदधिमिव समुद्रमिव । ध्वान्तिराशिसमुद्रयोस्तुल्यतां
दर्शयति -- क्वचितप्रदेशेऽरुणस्यानूरोर्भासा दीत्याभिनवया प्रत्यग्रया भिन्नं विशेषितम् ।
कयेव । विद्रुमाणां त्विषा रुचेव । यथोदधिरपि विद्रुमाणां प्रवालानां त्विषा भिन्नो भ-
वति । क्वचित्प्रदेशे । पुनरपि किंभूतम् । त्वङ्गन्ति कम्पन्ते रत्नानीव यानि नक्षत्राणि
तेषां युतिस्तस्या निकरस्तेन करालं विषमोन्नतमन्तरालं मध्यं यस्य स तथोक्तस्तम् । स-
मुद्रोऽपि त्वङ्गन्ती या नक्षत्रकल्परत्नद्युतिस्तस्या निकरेण करालान्तरालो भवति । पु-
नरपि किंभूतम् । नान्तर्नि:शेषकृष्णश्रियम् । अन्तर्मध्ये नि:शेषावशेषस(र)हिता कृ-
ष्णश्रीः कृष्णशोभा यस्य सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न, अपि तु कृष्णशोभायुक्तमेव । अ-
न्यत्र शेषः फणी । कृष्णो नारायणः । श्रीः पद्मा । शेषश्च कृष्णश्च श्रीश्च शेषकृष्ण-
श्रियः । अन्तर्मध्ये निर्गताः शेषकृष्णश्रियो यस्मादुदधेः सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न,
अपि त्वन्तःशेषकृष्णश्रीयुक्तमेव ॥