This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या

यामिन्या कन्ययेवामृतकर कलशावर्जितेनामृतेन ।

अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-

दुद्यन्बालप्रवालप्रतिमरुचिरहः पादपप्राक्प्ररोहः ॥ ३४ ॥

 
अर्कालोको भास्वत्प्रतापो मुदं हर्षे वो युष्माकं क्रियात् । कीदृशः । अहः पादपप्राक्प्र-

रोहः । अहःपादपो दिवसतरुस्तस्य प्राक्प्ररोहः प्रथमाङ्कुरः । किं कुर्वन् । उद्यन्नुद्गच्छन् ।

उदयशिरश्चक्रवालालवालात् । उदेत्यस्मिन्नित्युदय उदयाचलस्तस्य शिरांसि शृङ्गाणि

तेषां चक्रवालं मण्डलं तदेवालवालं जलाधारस्थानं तस्मात् । किंभूतात् । सिक्तमूलात् ।

कथम् । संसक्तमनवरतम् । कया । यामिन्या रात्र्या । किंभूतया । अभिनवेति । उद्यानमिव

भुवनं भवनोद्यानं तस्मिन्कौतूहलं विद्यते यस्याः सा तद्वती तया । कयेव । कन्ययेव

कुमायैर्येव । कुमारीणां किलैष धर्म इति । केन । अमृतेन सुधया । तुषारेणेति परमार्थः ।

किंभूतेन । अमृतकरकलशावर्जितेन । अमृतकर ओषधीशः स एव कलशस्तेनावर्जितं

क्षिप्तं तेन सिक्तमूलात् । अन्यत्रामृतेन जलेन करकलशावर्जितेन । पुनरपि कीदृशः ।

बालप्रवालप्रतिमरु चिर्नवकिसलयसमानकान्तिः । प्ररोहोऽपि नवविद्रुमसमो भवति ॥

 
भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
 

त्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।

नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-

दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भववष्दघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥

 
अर्कावभासः सूर्यालोको भवदघपुष्टये युष्मत्पापभस्मीकरणाय स्ताद्भवतु । क इव ।

अपूर्वोऽन्यः पूर्वोपि प्राक्तनोऽप्यौर्वोऽग्निरिव वडवानल इव । किं कुर्वन् । ध्वान्तराशिं ति-

मिरपु पिबन्सन् । कमिव । उदधिमिव समुद्रमिव । ध्वान्तिराशिसमुद्रयोस्तुल्यतां

दर्शयति - क्वचितप्रदेशेऽरुणस्यानूरोर्भासा दीत्याभिनवया प्रत्यग्रया भिन्नं विशेषितम् ।

कयेव । विद्रुमाणां त्विषा रुचेव । यथोदधिरपि विद्रुमाणां प्रवालानां त्विषा भिन्नो भ
-
वति । क्वचित्प्रदेशे । पुनरपि किंभूतम् । त्वङ्गन्ति कम्पन्ते रत्नानीव यानि नक्षत्राणि

तेषां युतिस्तस्या निकरस्तेन करालं विषमोन्नतमन्तरालं मध्यं यस्य स तथोक्तस्तम् । स
-
मुद्रोऽपि त्वङ्गन्ती या नक्षत्रकल्परत्न युतिस्तस्या निकरेण करालान्तरालो भवति । पु
-
नरपि किंभूतम् । नान्तर्नि:शेषकृष्ण श्रियम् । अन्तर्मध्ये नि:शेषावशेषस (र) हिता कृ-

ष्णश्रीः कृष्णशोभा यस्य सोऽन्तनि: शेषकृष्ण श्रीस्तन्न, अपि तु कृष्णशोभायुक्तमेव । अ-

न्यत्र शेषः फणी । कृष्णो नारायणः । श्रीः पद्मा । शेषश्च कृष्णश्च श्रीश्च शेषकृष्ण-

श्रियः । अन्तर्मध्ये निर्गताः शेषकृष्णश्रियो यस्मादुदधेः सोऽन्तर्नि:शेषकृष्णश्रीस्तन्न,

अपि त्वन्तःशेषकृष्णश्रीयुक्तमेव ॥