2023-02-24 09:33:08 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
काल इव व्याल: मृत्युहेतुत्वादिति योज्यम् ॥
निःशेषं नैशमम्भः प्रसभमपनुदन्न
स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।
दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धं
।
वध्या
ब्रघ्नस्याचिंप्रचारो रश्मिप्रसरो युष्मद्विरुद्धं भवदहितं वध्याद्धन्तु । प्राक्तनः पूर्वका-
लीयः । कीदृशोऽसौ । सिद्धाञ्जनविधिः सिद्धमव्यभिचरितं च तदञ्जनं च तस्य विधि-
रिव विधातेव । अपरोऽन्यः । स एव विशेष्यते –- किंभूतः । दाता दृष्टिम् । दातेति ता-
च्छील्यात्तृच् । अत एव दृष्टिमिति द्वितीया । किंभूताम् । प्रसन्नाम् । (साधु ददातीति
दाता । तृन् ।) किं कुर्वन् । अपनुदन् । किम् । नैशमम्भोऽवश्यायजलम् । निःशेषं स-
मस्तम् । प्रसभं प्रकाशम् । कीदृशं तत् । अश्रुलेशानुकारि नयनजलकल्पम् । सिद्धाञ्ज-
नविधिरप्यश्रु व्यपनयति । पुनरपि कीदृशः । स्तोकस्तोकापनीतारुणरुचिः स्तोकस्तो-
केन लेशेनापनीता उत्सृष्टा अरुणरुचिर्लोहितद्युतिः (येन) । किंचिदुज्झितबालभाव-
त्वात्स एवमुक्तः । अथवा स्तोकस्तोकं लेशेनापनीताभिभूता अरुणस्य सारथैरनूरो रु
चिर्येन । तथा इतरोऽपि लोचनानां शनैः शनैररुणतामपहरति । अचिरात्संक्षेपात् ।
अस्तदोषानुषङ्गस्त्यक्तरात्रिसंपर्क: । इतरोऽपि निर्धूतकामलादिदोषसंसर्गः । आशु शीघ्रं
वध्यादित्यनेन संबन्धनीयम् ॥
[^१]भूत्वा जम्भस्य
वि
र्बिभ्राणा बभ्रुभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ।
भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्रा-
[^२]ग्विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥
वैभाकरी सावित्री सा विभा कान्तिर्वो युष्माकं विभवोद्भूतयेऽर्थसंपत्त्यै विभवतु
विभुर्भवतु । किं कुर्वती । भ्राजमाना शोभमाना । विभ्रान्ति । क्रियाविशेषणमेतत् । किं
कुर्वाणा । बभ्रुभावं कपिलिमानं बिभ्राणा धारयन्ती । किं कृत्वा । परिभूतेः प्रारम्भभू-
मिर्भूत्वा संपद्य । शुभ्रभानोर्वलक्षगोः । क्व । ककुभि दिशि । कस्य । जम्भस्य भेत्तुर्ज-
म्भासुरारे
त्यग्रपङ्केरुहप्रबोधविदग्धा । या भूषा अलंकृतिः । भूयिष्ठशोभा बाहुल्येन । त्रिभुवनभव-
नस्य त्रिलोकीवेश्मनः । अस्य एतस्येति प्रत्यक्षेण निर्दिशति । यथा कोऽपि बलिनः
पक्षे स्थित्वा स्वप्रतिपक्षं हत्वा स्वगृहं समृद्ध्या भूषयति तद्वदत्र बोद्धव्यम् ॥
[^१
[^२