This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
[^१]यच्च त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वो

बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥
 
१७
 

 
अर्कतेजो रविधाम वो युष्मानवताद्रक्षतु । किंभूतम् । बाहुल्योत्पाद्यकार्याधिकतरम्

बाहुल्येन प्राचुर्येणोत्पाद्यं तच्च तत्कार्यं च तेनाधिकतरम् । बाहुल्येनोत्पादनीयानि भू..
-
यांसि कार्याणि यस्य तद्बाहुल्योत्पाद्यकार्यम् । अतस्तेभ्योऽधिकतरम् । अमीष्वमीषु

तेजो विद्यते । अन्यदीपतेजोभ्यो व्यतिरेकं दर्शयति – रत्नानां पद्मरागमणिप्रभृतीनां

मणीनां मण्डनाय भूषणायैव संपद्यते न दाहाय । कीदृशं तत् । नियतोद्देशलब्धावका-

शम् । नियतः परिमितः स चासावुद्देशश्च तस्मिँल्लव्धोऽवकाशो येन तत् । नियतोद्देश-

वर्
ति यत्कर्णादौ न्यस्तं तमेव द्योतयतीत्यर्थः । वह्नेः पावकस्य तेजो दार्वादि काष्ठादि दग्धुं

भस्मीकर्तु प्रभवति न मण्डनाय । इन्दोश्चन्द्रस्यानन्दमाहादं कर्तुं प्रभवति न मण्डनाय ।

कीदृशं तत् । निजजडिमतया सहजशीतलत्वेनोपलक्षितम् । अर्कतेज एकमेव तु त्रैलो-

क्यस्य भूषाविधिर्जगदलंकारक्रिया । अघदहनं पापापनोदि । ह्लादि वृष्ट्या कृत्वा आशु

आनन्दकारि । तथा हि -- 'आदित्याजायते वृष्टि:' । एकस्यैवार्कतेजसो मण्डनाद्यनेक-

क्रियाकारित्वम् । अत एवाह -- बाहुल्योत्पाद्यकार्येति ॥

 
मीलच्चक्षुर्विजिह्म श्रुति जडरसनं निम्नितघ्राणवृत्ति

स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ।

विस्त्रस्ताङ्गं पतित्वा स्वपदपहरतादेद[^२]श्रियं वोऽर्कजन्मा
 
-
 

 

कालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥

 
अर्कजन्मा भानुप्रभवः प्राक्प्रतापो नवप्रतापो वो युष्माकमश्रियमलक्ष्मीमपहरताद्व्य-

पनयतु । किं कुर्वन् । जगद्भुवनमुत्थापयन् । किंभूतम् । कालव्यालावलीढम् । व्याल

इव काल: समयभुजंगस्नावलीढं ग्रस्तम् । क इव । अगद इव विषापहारी भेषजयोग

इव । यथा कालसर्पदष्टं जगजन्तुचक्रमगद उत्थापयति तद्वदिति । किं कुर्वाणं जगदु-

त्थापयन् । स्वपत् शयानम् । किं कृत्वा । पतित्वा । कीदृशं तत् । मीलच्चक्षुः मीलन्तो

चक्षुषी यस्य तत्संकुचल्लोचनम् । एवं विजिह्मश्रुति । योऽहिना दष्टः सोऽपि मीलच्चक्षु-

विजिमश्रुतिश्च भवति । जडा विजिह्मा मन्दा रसना रसनेन्द्रियं यस्य तज्जडरसनं अपटु

श्रवणेन्द्रियं यस्य तत्तथोक्तम् । मूकजिह्वम् । निनितघ्राणवृत्ति निनितावसादं याता घ्रा--

णस्य नासिकाया वृत्तिर्यस्य तत् । स्वविषयगन्धोपलब्धिलक्षणवृत्तिर्निघ्निता यस्य । किं

च, स्वव्यापाराक्षमत्वक् स्वव्यापारः स्पर्शपरिच्छित्तिस्तत्राक्षमा त्वग्यस्य तदेवमुक्तम् ।

परिमुषितमनः परिप्लषितमनस्कं व्यपहतचित्तम् । इन्द्रियाणि मनोऽधिष्ठितानि । श्वास-

मात्रावशेषं श्वासैकयोगि । एतेन बुद्धीन्द्रियाणां विषयेऽपाटवत्वमुक्तम् । कर्मेन्द्रियाणां
 

 
[^
.] 'यत्तु' इति पाठः.
 
[^
.] 'अप्रियं' इति पाठान्तरम्.
 
'