This page has been fully proofread once and needs a second look.

१६
 
काव्यमाला ।
 
ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति

[^१]
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदेहद[^२]ह्नस्त्विषं यः ।

स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-

माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥

 
सोऽर्कप्रकाशः सूर्यालोको युष्मदाशां भवन्मनोरथं पूरयन्पूर्ण कुर्वन्मा विरंसीन्मा

विरामं यासीत् । पुनःपुनः पूरयत्विति यावत् । प्रातरसकलपटिमा अपरिपूर्णतैक्ष्ण्यः ।

किंभूतः । आशाकाशेति । आशा दिशः । आकाशं खम् । आशाश्चाकाशं चाशाकाशे

तयोरवकाशोऽन्तरालं तत्रावतरणमवतारस्तत्र तरुणो नवः प्रक्रमः सामर्थ्य यस्य स

एवमुक्तः । तत्रावतरणे पटुरित्यर्थः । भूयो विशेष्यते – यो ध्वान्तध्वंसं विधत्ते तम-

इछेदं कुरुते । न च तपति । कथम् । रुचिमद्दीप्तिमत् । कठोरमिति भावः । तथा ना-

तिरूपं रूपत्वविशिष्टं गुणं व्यनक्ति प्रकटयति । मन्दत्वात् । न्यक्त्वं न्यग्भावं नीत्वापि

प्रापय्यापि नक्तं रात्रिं न वितरतितरां नातिशयं तावत्र प्रयच्छति अह्नो दिवसस्य

त्विषं दीप्तिम् । स्वरूपकथनमिदम् । अथवा महानुभावानां शर्मोपादानं तमसो ध्वा-

न्तस्य ध्वंसं मोहच्छेदं स्वस्य च परस्य च विधत्ते । न स्वेच्छया तपत्युत्तापयति ।

नातिरूपं व्यनक्ति आत्मानं न श्लाघते । नक्तं रूपं विपक्षं प्रतिक्षिप्य दिवसकल्पमित्रस्य

तेजोवृद्धिं करोति ॥
 

 
तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु
 

प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।

यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति
 

ज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥

 
बाह्यं बहिःकरणपरिच्छेद्यं आभ्यन्तरं योगसमाधिगम्यं ज्योतिः । तीव्रमित्यादिना

यथाक्रमं स्वरूपमेवाह—-यत्तीव्रं तीक्ष्णं यन्निर्वाणहेतुर्मुक्तिकारणम् । विपुलं विस्तीर्ण र

इम्याख्यं यत्प्रकर्षेणातिशयेनाणु सूक्ष्मम् । यत्प्रत्यक्षमिन्द्रियादिग्राह्यं यत्परोक्षमतीन्द्रि-

यम् । यदिह संनिकृष्टं यदपरं बिप्रकृष्टम् । यन्नश्वरं नष्टमस्थायि यच्छाश्वतं नित्यम् । य
-
त्सर्वस्य जगतः प्रसिद्धं यत्कतिपये कियन्त एव योगिनो विदन्ति द्विचतुरा व्यासादयो

योगिनो जानन्ति तदेवंविधमिति सूर्यतेजो द्विप्रकारं द्विविधं बाह्यमाभ्यन्तरं च युष्मा-

नरक्षत्विति प्रथमोक्तिः ॥
 

 
रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं
 

वह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।
 

 
[^
.] 'न्यक्तां' इति पाठः.
 
[^
]. 'अह्नि' इति पाठ:.