2023-02-23 18:32:30 by ambuda-bot
This page has not been fully proofread.
१६
काव्यमाला ।
ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदेहस्त्विषं यः ।
स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-
माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥
सोऽर्कप्रकाशः सूर्यालोको युष्मदाशां भवन्मनोरथं पूरयन्पूर्ण कुर्वन्मा विरंसीन्मा
विरामं यासीत् । पुनःपुनः पूरयत्विति यावत् । प्रातरसकलपटिमा अपरिपूर्णतैक्ष्ण्यः ।
किंभूतः । आशाकाशेति । आशा दिशः । आकाशं खम् । आशाश्चाकाशं चाशाकाशे
तयोरवकाशोऽन्तरालं तत्रावतरणमवतारस्तत्र तरुणो नवः प्रक्रमः सामर्थ्य यस्य स
एवमुक्तः । तत्रावतरणे पटुरित्यर्थः । भूयो विशेष्यते – यो ध्वान्तध्वंसं विधत्ते तम-
इछेदं कुरुते । न च तपति । कथम् । रुचिमद्दीप्तिमत् । कठोरमिति भावः । तथा ना-
तिरूपं रूपत्वविशिष्टं गुणं व्यनक्ति प्रकटयति । मन्दत्वात् । न्यक्त्वं न्यग्भावं नीत्वापि
प्रापय्यापि नक्तं रात्रिं न वितरतितरां नातिशयं तावत्र प्रयच्छति अह्नो दिवसस्य
त्विषं दीप्तिम् । स्वरूपकथनमिदम् । अथवा महानुभावानां शर्मोपादानं तमसो ध्वा-
न्तस्य ध्वंसं मोहच्छेदं स्वस्य च परस्य च विधत्ते । न स्वेच्छया तपत्युत्तापयति ।
नातिरूपं व्यनक्ति आत्मानं न श्लाघते । नक्तं रूपं विपक्षं प्रतिक्षिप्य दिवसकल्पमित्रस्य
तेजोवृद्धिं करोति ॥
तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु
प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।
यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति
ज्योतिस्तद्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥
बाह्यं बहिःकरणपरिच्छेद्यं आभ्यन्तरं योगसमाधिगम्यं ज्योतिः । तीव्रमित्यादिना
यथाक्रमं स्वरूपमेवाह—यत्तीव्रं तीक्ष्णं यन्निर्वाणहेतुर्मुक्तिकारणम् । विपुलं विस्तीर्ण र
इम्याख्यं यत्प्रकर्षेणातिशयेनाणु सूक्ष्मम् । यत्प्रत्यक्षमिन्द्रियादिग्राह्यं यत्परोक्षमतीन्द्रि-
यम् । यदिह संनिकृष्टं यदपरं बिप्रकृष्टम् । यन्नश्वरं नष्टमस्थायि यच्छाश्वतं नित्यम् । य
त्सर्वस्य जगतः प्रसिद्धं यत्कतिपये कियन्त एव योगिनो विदन्ति द्विचतुरा व्यासादयो
योगिनो जानन्ति तदेवंविधमिति सूर्यतेजो द्विप्रकारं द्विविधं बाह्यमाभ्यन्तरं च युष्मा-
नरक्षत्विति प्रथमोक्तिः ॥
रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं
वह्नेर्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।
१. 'न्यक्तां' इति पाठः. २. 'अह्नि' इति पाठ:.