This page has been fully proofread once and needs a second look.

<page>
<verse text="A" n="26">
ज्योत्स्नांशाकर्षपाण्डुद्युति तिमिरमषीशेषकल्माषमीष-

ज्जृम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ।

प्रातः प्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्ती

कान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥ २६ ॥
 
</verse>
<p text="B" n="26">
तीक्ष्णत्विषस्तिग्मांशोः कान्तिीधितिर्वो युष्माकमक्ष्णां दृशां मुदं हर्षमुपनयतादा-

हरतात् । अतुलामपरिमिताम् । केव । तूलिकेव चित्रकारलेखनीव । किं कुर्वती । उ-

न्मीलयन्ती प्रकटयन्ती । किं तत् । जगत् । किंभूतम् । चित्रं नानाप्रकारम् । तूलिकापि

चित्रं कर्म । किंभूतं चित्रमिति श्लेषयति -- ज्योत्स्ना चन्द्रिका तस्या अंशो लेशस्त-

स्याकर्ष उपादानं तेन पाण्डुति पाण्डुच्छायं जगत् । चित्रमपि शुक्लवर्णानुप्रवेशात्पा-

ण्डुद्युति । तथा तिमिरशेषकल्माषम् । मषीवत्तिमिरं तिमिरमषी तस्याः शेष उद्धार:(?)

तेन कल्माषं कर्बुरम् । इतरदपि मषीलेशशारं भवति । किं च, पिङ्गं पीतम् । केन ।

सरसिजरजसा पद्मपरागेण । कीदृशेन । ईषज्जृम्भोद्भूतेन किंचिद्विकाससमुद्गतेन ।

चित्रमपि हरितालादिना । अपि च शोणशोचि अरुणच्छायम् । कथा । संध्यया सं-

ध्यासमयेन हेतुना । चित्रं हिङ्गुलादिना । कदेत्याह – प्रातः प्रारम्भकालेऽहर्मुखारम्भस-

मये । सकलं समस्तमिति वा । जगच्चित्रमिति समस्तं वा । जगच्चित्रमिव जगच्चित्र-

मिति । 'ज्योत्स्नांशाकृत्स्नपाण्डु' इति पाठान्तरम् । तत्र ज्योत्स्नांशो ज्योत्स्नालेशस्ते-

नाकृत्स्नपाण्डु असमस्तपाण्डु । स्तोकत्वाज्ज्योत्स्नाया इति योज्यम् ॥
 
</p>
<verse text="A" n="27">
आयान्ती किं सुमेरो: सरणिररुणिता पाद्मरागैः परागै-

राहोस्वित्स्वस्य [^१]माहारजनविरचिता वैजयन्ती रथस्य ।

माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चा[^२]मराली नु लोकै-

राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभावः ॥ २७ ॥
 
</verse>
<p text="B" n="27">
सवितुरादित्यस्य प्रभातप्रभा प्रातर्द्युतिर्वी युष्माकमघनुदे पापनुत्यै स्ताद्भवतु । किं-

भूता । आलोकिता वीक्षिता । किं कृत्वा । आशङ्क्य वितर्क्य । लोकैर्जनैः । कथम् । एव-

मित्थम् । तदेव दर्शयति -- किं कुर्वती । आयान्त्यागच्छन्ती । सुमेरोर्देवाचलात् । सर-

णिर्मार्गः । अरुणिता रक्तीकृता । कैः । परागैः रजोभिः । किमीयैः । पाद्मरागैः पद्मराग-

मणिजन्मभिः । आहोस्विद्वितर्के । रथस्य स्यन्दनस्य स्वकीयस्य वैजयन्ती पताका ।

कीदृशी । माहारजनविरचिता । महारजनस्यायं रागो माहारजनः कौसुम्भं (वासः) तेन

रचिता निर्मिता । पुनरपि कीदृशी । प्रष्ठवाहेति । प्रष्ठा उत्तमा ये वाहा वाजिनस्तेषामा-

वलिः पङ्क्तिस्तस्या विधुतशिरांसि चलितमूर्धानस्तेषु चामराली चमरपङ्क्तिः सा किं नु ।

कीदृशी । माञ्जिष्ठी मञ्जिष्ठया रक्तेति । एवमिति प्रत्येकं योज्यम् ॥
 
[^
</p>
<footnote mark="
] ">'माहारजनेन कौसुम्भवाससा' इति वल्लभः.

[^२]. 'चामरालीव' इति पाठः,</footnote>
</page>